पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ मनुस्मृतिः [ अध्यायः ८ जीवन्तीनां तु तासां ये तद्धरेयुः खबान्धवाः। ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः॥ २९ ॥ जीवन्तीनामिति ॥ वयमत्रानन्तराधिकारिणो रक्ष्याम इदं धन मित्यादिव्याजेन ये बान्धवान्तासां जीवन्तीनां तद्धनं गृह्णन्ति तान्वक्ष्यमाणचौरदण्डेन धार्मिको राजा दण्डयेत् ॥ २९ ॥ प्रणटस्वामिकं रिक्थं राजा व्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिहरेत् ॥ ३०॥ प्रणष्टेति ॥ अज्ञातस्वामिकं धनं राजा कस्य किं प्रणष्टमित्येवं पटहादिना उद्घोप्य राजद्वारादौ रक्षितं वर्षत्रयं स्थापयेत् । वर्षत्रयमध्ये यदि धनस्वाम्यागच्छति तदा स एव गृह्णीयात् । तदूर्वं तु नृपतिर्विनियुञ्जीत ॥ ३० ॥ ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि । संवाद्य रूपसंख्यादीन्स्वामी तद्रव्यमर्हति ॥ ३१ ॥ ममेदमित्यादि ॥ मदीयं धनमिति यो वदति स किंरूपं, किंसंख्याकं, कुत्र प्रणष्टं तद्धनमित्यादिविधानेन प्रष्टव्यः । ततो यदि रूपसंख्यादीन्सत्यान्वदति तदा स तत्र धनस्वामी तद्धनं ग्रहीतुमर्हति ॥ ३१ ॥ अवेदयानो नष्टस्य देशं कालं च तत्त्वतः। वर्ण रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ ३२ ॥ अवेदयान इत्यादि ॥ नष्टद्रव्यस्य देशकालावस्मिन्देशेऽस्सिन्काले नष्टमिति, तथा वर्ण शुक्लादि, आकारं कटकमुकुटादि, परिमाणं च यथावदजानन्नष्टद्रव्यसम- दण्डमर्हति ॥ ३२ ॥ आददीताथ षड्भागं प्रणष्टाधिगतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥३३॥ देशकालादिसंवादे पुनः आददीतेति ॥ यदेतद्वाज्ञा प्रणष्टद्रव्यं प्राप्त तस्मा- षड्भागं दशमं द्वादशं वा रक्षादिनिमित्तं पूर्वेषां साधूनामयं धर्म इति जानराजा गृह्णीयात् । धनस्वामिनो निर्गुणसगुणत्वापेक्षश्चायं षड्भागादिग्रहण- विकल्पः । अवशिष्टं स्वामिने समर्पयेत् ॥ ३३ ॥ प्रणष्टाधिगतं द्रव्यं तिष्ठेयुक्तैरधिष्ठितम् । यांस्तत्र चौरान्गृह्णीयात्ताराजेभेन घातयेत् ॥ ३४ ॥ प्रणष्टेति ॥ यद्रव्यं कस्यापि प्रणष्टं सत् राजपुरुषैः प्राप्तं रक्षायुक्तै रक्षितं कृत्वा स्थाप्यं । तस्मिंश्च द्रव्ये यांचौरान्गृह्णीयात्तान्हस्तिना घातयेत् । गोविन्दराजस्तु 'शताभ्यधिके वधः' इति दर्शनादत्रापि शतसुवर्णस्य मौल्यादिकद्रव्यहरणे वध-