पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ मनुस्मृतिः। [अध्यायः ८ निधीनामिति ॥ निधीनां पुरातनानामस्वकीयानां विद्वद्राह्मणेतरलब्धानां सुवर्णाद्युत्पत्तिस्थानानां चार्धहरो राजा । यस्मादसौ रक्षति भूमेश्च प्रभुः ॥ ३९॥ दातव्यं सर्ववर्णेभ्यो राज्ञा चौरेहृतं धनम् । राजा तदुपयुञ्जानश्चौरसाप्नोति किल्विषम् ॥ ४० ॥ दातव्यमिति ॥ यद्धनं चौरैलॊकानामपहृतं तद्वाज्ञा चौरेभ्य आहृत्य धनस्वा- निभ्यो देयं । तद्धनं राजा स्वयमुपयुञानश्चौरस्य पापं प्रामोति ॥ ४० ॥ जातिजानपदान्धर्माश्रेणीधर्मांश्च धर्मवित् । समीक्ष्य कुलधर्माश्च स्वधर्म प्रतिपादयेत् ॥ ४१ ॥ जातीति ॥ धर्मान्ब्राह्मणादिजातिनियतान्याजनादीन् जानपदांश्च नियतदेश- व्यवस्थितानान्नायाविरुद्धान्, देशजातिकुलधांश्च 'आम्नायैरपतिपिद्धाः प्रमाणम्' इति गोतमस्मरणात् । श्रेणीधर्माश्च वणिगादिधर्मान्प्रनिनियतकुलव्यवस्थिता- ज्ञात्वा तदविरुद्धानराजा व्यवहारेषु तत्तद्धर्मान्व्यवस्थापयेत् ॥ ४१ ॥ स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । प्रिया भवन्ति लोकस्य स्खे खे कर्मण्यवस्थिताः॥४२॥ यस्मात् स्वानीत्यादि ॥ जानिदेशकुलधर्मादीन्यात्मीयकर्माण्यनुतिष्ठन्तः, स्वे स्वे च नित्यनैमित्तिकादौ कर्मणि वर्तमानाः, दूरेऽपि सन्तः सांनिध्यनिबन्धनस्नेहा- भावेऽपि लोकस्य प्रिया भवन्ति ॥ ४२ ॥ प्रासङ्गिकमिदमभिधाय पुनः प्रकृतमाह- नोत्पादयेत्स्वयं कार्य राजा नाप्यस्य पूरुषः । न च प्रापितमन्येन असेदर्थ कथंचन ॥४३॥ नोत्पादयेदिनि ॥ राजा राजनियुक्तो वा धनलोभादिना कार्यमृणादिविवाद नोत्पादयेत् । तदाह कात्यायन:-'न राजा तु वशित्वेन धनलोभेन वा पुनः । स्वयं कर्माणि कुर्वीत नराणामविवादिनाम् ॥' न चार्थिना प्रत्यर्थिना वावेदितं विवादं धनादिलोभेनोपेक्षेत ॥ ४३ ॥ यथा नयत्यमुक्पातैर्मृगस्य मृगयुः पदम् । नयेत्तथानुमानेन धर्मस्य नृपतिः पदम् ॥ ४४ ॥ यथेति ॥ यथा मृगस्य शस्त्रहतस्य रुधिरपातैाधः पदं स्थान प्राप्नोति तथानु- मानेन इष्टप्रमाणेन वा धर्मस्य तत्त्वं निश्चिनुयात् ॥ ४४ ॥ सत्यमर्थं च संपश्येदात्मानमथ साक्षिणः । देशं रूपं च कालं च व्यवहारविधौ स्थितः॥४५॥ सत्यमित्यादि ॥ व्यवहारदर्शनप्रवृत्तो राजा छलमपहाय सत्यं पश्येत्तथाथै च ।