पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२७० मनुस्मृतिः। [अध्यायः८ दीनां क्रियानुष्ठानम् । दत्तस्य धनत्यापात्रबुद्ध्या क्रोधादिना वा ग्रहणम् । कर्म- करस्य भृतेरदानम् । कृतव्यवस्थातिक्रमः । क्रयविक्रये च कृते पश्चात्तापाद्विप्रति- पतिः । स्वामिपशुपालयोर्विवादः। प्रामादिसीमाविप्रतिपत्तिः। वाक्पारुष्यमा- क्रोशनादि । दण्डपारुप्यं ताडनादि । स्तेयं निह्नवेन धनग्रहणम् । साहसं असह्य धनहरणादि । स्त्रियाश्च परपुरुषसंपर्कः । स्त्रीसहितस्य पुंसो धर्मे व्यवस्था । पैतृ- कादिधनस्य च विभागः । अक्षादिक्रीडापणव्यवस्थापनपूर्वकं । पक्षिमेपादिप्राणि- योधनम् । इत्येवमष्टादश । एतानि व्यवहारप्रवृत्तेः स्थानानि समाह्वयस्य प्राणि- चूनरूपन्वेन छूतावान्तरविशेपत्वादष्टादशसंख्योपपत्तिः ॥ ४ ॥५॥ ६ ॥ ७ ॥ एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । धर्म शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम् ॥ ८॥ एग्वित्यादि ॥ एम्वृणादानादिषु व्यवहारस्थानेषु बाहुल्येन विवादं कुर्वतां मनु- घ्याणामनादिपारंपर्यागतत्वेन नित्यं धर्ममवलम्ब्य कार्यनिर्णयं कुर्यात् । भूयिष्ठश. ब्देनान्यान्यपि विवादपदानि सन्तीति सूचयति । तानि च प्रकीर्णकशब्देन नार- दाधुक्त्तानि । अतएव नारदः-'न दृष्टं यच्च पूर्वेषु सर्व तत्स्यात्यकीर्णकम्' इति ॥८॥ यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम् । तदा नियुझ्याद्विद्वांसं ब्राह्मणं कार्यदर्शने ॥९॥ यदेत्यादि ॥ यदा कार्यान्तराकुलतया रोगादिना वा राजा स्वयं कार्यदर्शनं न कुर्याचदा तदर्शनार्थ कार्यदर्शनाभिझं ब्राह्मणं नियुञ्जीत ॥ ९॥ सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः। सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा ॥ १० ॥ सोऽस्येति ॥ स ब्राह्मणोऽस्य राज्ञो द्रष्टव्यानि कार्याणि त्रिभिाह्मणैः सभायां साधु- भिर्धार्मिकैः कार्यदर्शनाभिज्ञैर्वृतस्तामेव सभां प्रविश्योपविश्य स्थितो वा नतु चंक्र- म्यमाणस्तस्य चित्तव्याक्षेपसंभवत्वात्तादृशऋणादानादीनि कार्याणि पश्येत् ॥१०॥ यस्सिन्देशे निषीदन्ति विमा वेदविदस्त्रयः। राज्ञश्वाधिकृतो विद्वान्ब्रह्मणस्तां सभां विदुः ॥ ११ ॥ यस्मिन्निति ॥ यसिंस्थाने ऋग्यजुःसामवेदिनस्त्रयोऽपि ब्राह्मणा अवतिष्ठन्ते, राज्ञाधिकृतश्च विद्वान्ब्राह्मण एव प्रकृतत्वादवतिष्ठते, तां सभां चतुर्मुखसभामिव मन्यन्ते ॥ ११ ॥ धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते । शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥ १२ ॥ धर्म इति ॥ भाः प्रकाशस्तया सह वर्तत इति विद्वत्संहतिरेवान सभाशब्देना- भिमता । यत्र देशे सभां विद्वत्संहतिरूपां धर्मः सत्याभिधानजन्योऽनृताभिधानज-