पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। न्येन धर्मेण पीडित आगच्छति अर्थिप्रत्यर्थिनोर्मध्ये एकस्य सल्याभिधानादपरस्य मृपावादात्ते च सभासदोऽस्य धर्मस्य पीडाकरत्वाच्छल्यमिवाधर्म नोद्धरन्ति तदा ते एव तेनाधर्मशल्येन विद्धा भवन्ति ॥ १२ ॥ सभा वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्विषी ॥ १३ ॥ यत एवमतः सभामिति ॥ सभामवगम्य व्यवहारार्थ तत्प्रवेशो न कर्तव्यः। पृष्टश्चेत्तदा सत्यमेव वक्तव्यम् । अन्यथा तूष्णीमवतिष्ठमानो मृषा वा वदन्नुभय- थापि सद्यः पापी भवति । मेधातिथिना तु 'सभा वा न प्रवेष्टव्या' इति ऋज्वेव पठितम् ॥ १३॥ यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ १४ ॥ यत्रेत्यादि ॥ यस्यां सभायामर्थिप्रत्यर्थि यामधर्मेण धर्मो न दृश्यते । यत्र च साक्षिभिः सत्यमनृतेन नाश्यते सभासदां प्रेक्षमाणानां ताननादृत्य ते प्रतीकार- क्षमा न भवन्तीत्यर्थः । षष्टी चानादरे' इत्यनेन षष्टी । तत्र त एव सभासद- स्तेन पापेन हता सवन्ति ॥ १४ ॥ धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः। तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥१५॥ धर्म इत्यादि ॥ यस्माद्धर्म एवातिकान्त इष्टानिष्टाभ्यां सह नाशयति नार्थिप्र- त्यादि । स एव नातिक्रान्तस्ताभ्यां सह रक्षति । तस्माद्धर्मों नातिक्रमणीयः । माऽस्मान् त्वत्सहितानतिक्रान्तो धर्मोऽवधीदिति सभ्यानामुत्पथप्रवृत्तस्य प्रावि- वाकस्य संबोधनमिदम् । अथवा नो निषेधेऽव्ययं नो हतो धर्मो मावधीत् न हन्त्येवेत्यभिप्रायः ॥ १५ ॥ वृषो हि भगवान्धर्मस्तस्य यः कुरुते यलम् । वृषलं तं विदुर्दैवास्तस्माद्धर्म न लोपयेत् ॥ १६ ॥ वृष इत्यादि ॥ कामान्वर्पतीति वृषः वृषशब्देन धर्म एवाभिधीयत इति । अलंशब्दो वारणार्थः । यस्माद्धर्मस्य यो वारणं करोति तं देवा वृषलं जानन्ति न तस्माद्धर्म नोच्छिद्यादिति धर्मव्यतिक्रमखण्डनार्थं वृपलशब्दार्थनिर्व- चनम् ॥ १६॥ एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ १७ ॥ एक इत्यादि ॥ धर्म एवैको मित्रं यो मरणेऽप्यभीष्टफलदानार्थमनुगच्छति यस्मादन्यत्सर्वं भार्यापुत्रादि शरीरेणैव सहादर्शनं गच्छति । तस्मात्पुत्रादिस्नेहापे- क्षयापि धर्मो न हातव्यः ॥ १७ ॥