मनुस्मृतिः। [अध्यायः ५
नान्योत्पन्नेति ॥ यस्माद्भर्तृव्यतिरिक्तेन पुरुषेणोत्पन्ना सा प्रजा तस्याः शास्त्रीया न भवति । नचान्यपत्न्यामुत्पादितोत्पादकस्य प्रजा भवति । एतच्चानियोगोत्पाद्वितविपयम् । बहुभर्तृकेयमिति लोकप्रसिद्धेः द्वितीयोऽपि भर्तेव। तसादन्योत्पादितत्वमसिद्धमित्याशङ्याह-नेति। लोके गप्रिसिद्धावपि साध्वाचाराणां न क्वचिच्छास्त्रे द्वितीयोपभर्तोपदिश्यते । एवंच सति पुनर्भूत्वमपि प्रतिषिद्धम् ॥१६२॥
पतिं हित्वापकृष्टं स्वमुत्कृष्टं या निषेवते । |
पतिमिति ॥ अपकृष्टं क्षत्रियादिकं स्वकीयं पतिं त्यक्त्वोत्कृष्टं ब्राह्मणादिकं या आश्रयति सा लोके गर्हणीयैव भवति । परोऽन्यः पूर्वो भर्तास्या अभूदिति च लोकैरुच्यते ॥ १६३ ॥ व्यनिचारफलमाह-
व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । |
व्यभिचारादिति ॥ परपुरुषोपभोगेन स्त्री इह लोके गर्हणीयतां लभते, मृता च शृगाली भवति, कुष्ठादिरोगैश्च पीड्यते ॥ १६४ ॥
पतिं या नाभिचरति मनोवाग्देहसंयता । |
पनिमिनि ॥ मनोवाग्देहसंयतेति विशेषणोपादानाद्या मनोवाग्देहैरेव भर्तारं न व्यभिचरति ला भर्तृमाननिष्ठमनोवाग्देहव्यापारत्वाना सहार्जिताल्लोकान्प्राप्नोति । इह च शिष्टैः साध्वीत्युच्यते । वाङ्मनसाभ्यामपि पतिं न व्यभिचरेदिति विधानार्थो दैहिकव्यभिचारनिवृत्तेरुक्ताया अप्यनुवादः ॥ १६५ ॥
अनेन नारीवृत्तेन मनोवाग्देहसंयता। |
अनेनेति ॥ अनेन स्त्रीधर्मप्रकारेणोक्तेनाचारेण पतिशुश्रूषाभत्रव्यभिचारादिना मनोवाकायसंयता स्त्री इह लोके च प्रकृष्टां कीर्तिं परत्र पत्या सहार्जितं च स्वर्गादिलोकं प्राप्नोतीति प्रकरणार्थोपसंहारः ॥ १६६ ॥
एवंवृत्तां सवर्णा स्त्रीं द्विजातिः पूर्वमारिणीम् । |
एवंवृत्तामिति ॥ द्विजातिः समानवां यथोक्ताचारयुक्तां पूर्वमृतां श्रौतस्मार्ताग्निभिर्यज्ञपात्रैश्च दाहधर्मज्ञो दाहयेत् ॥ १६७ ॥
भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि । |