पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यायः ६] मन्वर्थमुक्तावलीसंवलिता। २११ भायेति ॥ पूर्वमृताया अन्त्यकर्मणि दाहनिमित्तमग्नीन्समर्प्य गृहस्थाश्रममि- नुत्पन्नपुत्रोऽनुत्पन्नपुत्रो वा पुनर्विवाहं कुर्यात् । स्मार्ताग्नीधौताग्नीवा इध्यात् ॥ १६८ ॥ अमेन विधिना नित्यं पञ्चयज्ञान हापयेत् । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ १६९ ॥ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां पञ्चमोऽध्यायः अनेनेति ॥ अनेन तृतीयाध्यायायुक्तविधिना प्रत्यहं पञ्चयज्ञान्न त्यजेत् । द्विती- ग्युर्भागं कृतदारपरिग्रहोऽनेनैव यथोक्तविधिना गृहस्थविहितान्धर्माननुतिष्ठेत् । स्थधर्मत्वेऽपि पञ्चयज्ञानां प्रकृष्टधर्मज्ञापनार्थ पृथनिर्देशः ॥ १६९ ॥ इति श्रीकुल्लूकभट्टकृताया मन्वर्थमुक्तावल्यां मनुवृत्तौ पञ्चमोऽध्यायः ॥ ५ ॥ अथ षष्ठोऽध्यायः। एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः। वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ॥१॥ एवमिति ॥ आश्रमसमुच्चयपक्षाश्रितो द्विजातिः कृतसमावर्तन उक्तप्रकारेण शास्त्रं गृहाश्रममनुष्ठाय नियतः कृतनिश्चयो यथाविधानं वक्ष्यमाणधर्मेण य- विशेषेण जितेन्द्रियः । परिपक्वकषाय इत्यर्थः। वानप्रस्थाश्रममनुतिष्ठेत् ॥३॥ गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः। अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥२॥ गृहस्थस्त्विति ॥ गृहस्थो यदात्मदेहस्य त्वक्शैथिल्यं केशधावल्यं पुत्रस्य पुत्रं रश्यति तथाविधवयोवस्थया विगतविषयरागतया वनमाश्रयेत् ॥ २॥ संत्यज्य ग्राम्यमाहारं सर्व चैव परिच्छदम् । पुत्रेषु भार्या निक्षिप्य वनं गच्छेत्सहैव वा ॥३॥ संत्यज्येत्यादि ॥ ग्राम्यं ब्रीहियवादिकं भक्ष्यं सर्व च गवाश्वशय्यादिपरिच्छदं त्यज्य विद्यमानभार्यश्च वनवासमनिच्छन्तीं भार्या पुत्रेषु समर्प्य इच्छन्त्या व वनं गच्छेत् ॥ ३॥ अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । ग्रामादरण्यं निःसृत्य निवसेनियतेन्द्रियः॥४॥ अग्निहोत्रमिति ॥ श्रौताग्निमावसथ्याग्निमभ्युपकरणं च खुक्नुवादि गृहीत्वा नादरण्यं निःसृत्य गत्वा संयतेन्द्रियः सन्निवसेत् ॥ ४॥