पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। २०९

अनुपस्थितावपि पत्यन्तरेण यज्ञनिष्पत्तिः तथा न स्त्रीणां भी विना यज्ञसिद्धिः । नापि भर्तुरनुमतिमन्तरेण व्रतोपवासौ किंतु भर्तृपरिचर्ययैव स्त्री स्वर्गलोके पूज्यते ॥

पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।
पतिलोकमभीप्सन्ती नाचरेत्किंचिदप्रियम् ॥ १५६ ॥

पाणिग्राहस्येति ॥ पत्या सह धर्माचरणेन योऽर्जितः स्वर्गादिलोकः तमिच्छन्ती साध्वी स्त्री जीवतो वा मृतस्य वा भर्तुर्न किंचिदप्रियमर्जयेत् । मृतस्याप्रियं व्यभिचारेण विहितश्राद्धखण्डनेन च ॥ १५६ ॥

कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः ।
नतु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥ १५७ ।।

कामं त्विति ॥ वृत्तिसंभवेऽपि पुष्पमूलफलैः पवित्रैश्च देहं क्षपयेदल्पाहारेण क्षीणं कुर्यात् । नच भर्तरि मृते व्यभिचारधिया परपुरुषस्य नामाप्युच्चारयेत् ॥१७॥

आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां कासन्ती तमनुत्तमम् ॥ १५८ ॥

एवं च सति आसीतेति ॥ क्षमायुक्ता नियमवती एकभर्तृकाणां यो धर्मः प्रकृष्टतमस्तमिच्छन्ती मधुमांसमैथुनवर्जनात्मकब्रह्मचर्यशालिनी मरणपर्यन्तं तिष्ठेत् । अपुत्रापि पुत्रार्थ न परपुरुषं सेवेत ॥ १५८ ॥

अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ १५९ ॥

यस्मात् अनेकानीति ॥ बाल्यत एव ब्रह्मचारिणामकृतदाराणां सनकवालखिल्यादीनां ब्राह्मणानां बहूनि सहस्राणि कुलवृद्ध्यर्थं संततिमनुत्पाद्यापि स्वर्ग गतानि ॥

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्ग गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ १६० ॥

मृते भर्तरीति ॥ साध्वाचारा स्त्री मृते भर्तर्यकृतपुरुषान्तरमैथुना पुत्ररहितापि स्वर्गं गच्छति । यथा ते सनकवालखिल्यादयः पुत्रशून्याः स्वर्गं गताः ॥ १६० ॥

अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते ।
सेह निन्दामवाप्नोति पतिलोकाच्च हीयते ॥ १६१ ॥

अपत्यलोभादिति ॥ पुत्रो मे जायतां तेन स्वर्गं प्राप्स्यामीति लोभेन या स्त्री भर्तारमतिक्रम्य वर्तते । व्यभिचरतीत्यर्थः । सेह लोके गर्हां प्राप्नोति । परलोकं च स्वर्ग तेन पुत्रेण न लभते ॥ १६१ ॥ अत्रैव हेतुमाह-

नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहे ।
न द्वितीयश्च साध्वीनां कचिद्भापदिश्यते ॥ १६२ ।।