पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०४ मनुस्मृतिः । [अध्यायः ५

विशुद्धाः स्युः । भूमिगता इति विशुद्धभूमिसंबन्धप्रदर्शनाय न त्वन्तरिक्षगतानां निवृत्त्यर्थम् ॥ १२८ ॥

नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ।
ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः ।। १२९ ।।

नित्यं शुद्ध इति ॥ कारोमालाकारादेवब्राह्मणाद्यर्थेऽपि माल्यादिप्रथने द्रव्यप्रयोजनाद्यपेक्षया शुद्धिविशेषाकरणेऽपि स्वभावादेव हस्तः सर्वदा शुद्धः । तथा जननमरणयोरपि स्वव्यापारे शुद्धः । 'न त्वाशौचं कारूगां कारकर्मणि इति वत्रनात् । तथा यद्विक्रेतव्यं पण्यवीथिकायां प्रसारितं 'नापगनीयनन्नमश्नीयात्' इति शङ्खवचनासिद्धान्नव्यतिरिक्तं तदनेकक्रेतकरस्पर्गेऽपि शुद्धमेव । तथाच ब्रह्मचायादिगतभक्ष्यमनाचान्तस्त्रीदत्तमपि रथ्यादिक्रमणेऽपि सर्वदा शुद्धमिति शास्त्रंमर्यादा ॥ १२९॥

नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने ।
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः॥ १३० ॥

नित्यमास्वमिति ॥ सर्वदा स्त्रीणां मुखं शुचि, तथा काकादिपक्षिणां चञ्चूपधातपतितं फलं शुचि, वत्समुखं च दोहसमये क्षीरप्रक्षरणे शुचि, श्वा च यदा मृगादीन्हन्तुं गृह्णाति तदा तत्र व्यापारे शुचिः स्यात् ॥ १३० ॥

श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् ।
क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाघैश्च दस्युभिः ॥ १३१ ॥

श्वभिरिति ॥ कुक्कुरैर्हतस्य मृगादेर्यन्मांसं तच्छुचि मनुरवोचत् । तच्छ्राद्धाद्यतिथिभोजनादावेव द्रष्टव्यम् । अन्यैश्चाममांसादिभिर्व्यावश्येनादिभिश्च व्याधादिभिश्च मृगवधजीविभिर्हतस्य ॥ १३१ ॥

ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः।
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः॥ १३२ ॥

ऊर्वं नाभेरिति ॥ यानि नाभेरुपरीन्द्रियछिद्राणि तानि सर्वाणि पवित्राणि भवन्ति । अतस्तेयां स्पर्शने नाशौचम् । यानि नामेरधस्तान्यशुचीनि भवन्ति अधश्छिद्रेषु च । बहुवचनं व्यक्तिबहुत्वापेक्षया । वक्ष्यमाणाश्च वसादयो देहमला देहान्निःसृता अशुद्धा भवन्ति ॥ १३२ ॥

मक्षिका विप्रुपश्छाया गौरश्वः सूर्यरश्मयः।
रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥ १३३ ॥

मक्षिकेति ॥ मक्षिका अमेध्यस्पर्शिन्योऽपि, विग्रुपो मुखनिःसृता अल्पा जलछाया पतितादेीनस्पर्शस्यापि, गवादीनि चाग्निपर्यन्तानि चण्डालादिस्पृष्टानि स्पर्श शुचीनि जानीयात् ॥ १३३ ॥