अध्यायः ५] नन्वर्थमुक्तावलीसंवलिता। २०३
मद्यैर्मूत्रैः पुरीपैर्वा ष्ठीवनैः पूयशोणितैः । |
मद्यैरिति ॥ मद्यादिभिस्तु संस्पृष्टं मृन्मयपात्रं पुनःपाकेनापि न शुध्यति । ष्टीवनं श्लेप्मा । पूयं शोणितविकारः ॥ १२३ ॥
संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च । |
संमार्जनेति ॥ अबकरशोधनेन गोमयाद्युपलेपनेन गोमूत्रोदकादिसेकेन खात्वा कतिपयमृदपनयनेन गवामहोरात्रनिवासेन पञ्चभिरेकैकशो भूमिः शुद्ध्यति । एषां चोच्छिष्टमूत्रपुरीपचण्डालनिवासाधुपघातगौरवलाघवाभ्यां समुच्चयविकल्पाववगन्तव्यौ ॥ १२४॥
पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् । |
पक्षिजग्धमिति ॥ भक्ष्यपक्षिभिर्नतु काकगृध्रादिभिः कश्चिद्भागो यस्य भक्षितः, गवा यस्य नाणं कृतं, पदा चावधूतमुपरि कृतक्षुतं, केशकीटदूषितं, जन्धशब्दलिङ्गादन्नमल्पं मृत्प्रक्षेपेण शुद्ध्यति ॥ १२५ ॥
यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः। |
यावदिति ॥ विष्ठादिलिप्ताहव्याद्यावत्तत्संबन्धिनौ गन्धलेपौ तिष्ठतस्ताबद्रव्यमुद्धृत्य मृद्वारि प्रक्षिप्य ग्रहीतव्यम् । यत्रच वसामजादौ मृदा शुद्धिस्तत्र मृत्सहितं जलग्रहणं कर्तव्यम् । यत्र कर्णमलादौ जलेनैव शुद्धिस्तत्र जलमात्रमित्यवगन्तव्यम् ॥ १२६॥
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । |
त्रीणि देवा इति ॥ केनापि प्रकारेणादृष्टोपघातहेतुसंसर्गमदृष्टम् । संजातोपघातशङ्कायां जलेन प्रक्षालितम् । तदाह हरीत:--'यद्यन्मीमांस्यं स्यात्तत्तदद्भिः स्पर्शाच्छुद्धं भवति । उपधातशङ्कायामेव पवित्रं भवत्विति ब्राह्मणवाचा यत्प्रशस्यते तानि त्रीणि पवित्राणि देवाः ब्राह्मणानां कल्पितवन्तः ॥ १२७ ॥
आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् । |
आपः शुद्धा इति ॥ यत्परिमाणास्त्रप्सु गोः पिपासाविच्छेदो भवति ता आपो गन्धवर्णरसशालिन्यः सत्यः यद्यमेध्यलिप्ता न भवन्ति तदा विशुद्धभूमिगता