पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ५]
१८१
मन्वर्थमुक्तावलीसंवलिता।

नपि नक्रादीन्विड्वराहांश्च । विडिति विशेषणमारण्यसूकराभ्यनुज्ञानार्थम्। मत्स्यांश्च सर्वान्वर्जयेत् ॥ १४॥

 मत्स्यभक्षणनिन्दामाह-

यो यस्य मांसमश्नाति स तन्मांसाद उच्यते ।
मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान्विवर्जयेत् ॥ १५ ॥

 यो यस्येति ॥ यो यदीयं मांसं खादति स तन्मांसाद एव परं व्यपदिश्यते । यथा मार्जारो मूषिकादः । मत्स्यादः पुनः सर्वमांसभक्षकत्वेन व्यपदेष्टुं योग्यस्तस्मान्मत्स्यान्न खादेत् ॥ १५ ॥

 इदानीं भक्ष्यमत्स्यानाह-

पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः।
राजीवान्सिंहतुण्डांश्च सशल्कांश्चैव सर्वशः॥ १६ ॥

 पाठीनरोहिताविति ॥ पाठीनरोहितौ मत्स्यभेदौ भक्षणीयौ । हव्यकव्ययोर्नियुक्ताविति समस्तवक्ष्यमाणभक्षणनिषिद्धोपलक्षणार्थम् । तेन प्राणात्ययादावदोषः । तथा राजीवाख्यान्सिंहतुण्डांश्च सशल्कांश्च सर्वान्वक्ष्यमाणलक्षणोपेतानद्यात् । मेधातिथिगोविन्दराजौ तु-'पाठीनरोहितौ दैवपैत्रादिकर्मणि नियुक्तावेवादनीयौ न त्वन्यदा। राजीवसिंहतुण्डसशल्कमत्स्यास्तु हव्यकव्याभ्यामन्यत्रापि भक्षणीयाः' इत्याचक्षतुः । न तन्मनोहरम् । पाठीनरोहितौ श्राद्धे नियुक्तौ श्राद्धभोक्त्रैव भक्षणीयौ नतु श्राद्धकर्त्रापि । राजीवादयो हव्यकव्याभ्यामन्यत्रापि भक्ष्या इत्यस्याप्रमाणत्वात् । मुन्यन्तरैश्च रोहितपाठीनराजीवादीनां तुल्यत्वेनाभिधानात् । तथाच शङ्ख:-'राजीवाः सिंहतुण्डाश्च सशल्काश्च तथैव च । पाठीनरोहितौ चापि भक्ष्या मत्स्येषु कीर्तिताः'। याज्ञवल्क्यः-'भक्ष्याः पञ्चनखाः श्वाविद्गोधाः कच्छपशल्यकाः । शशश्च मत्स्येष्वपि तु सिंहतुण्डकरोहिताः । तथा पाठीनराजीवसशल्काश्च द्विजातिभिः' । हारीतः-'सशल्कान्मत्स्यान्न्यायोपपन्नान्भक्षयेत्' । एवंच 'भोक्त्रैवाद्यौ न कर्त्रापि श्राद्धे पाठीनरोहितौ । राजीवाद्यास्तथा नेति व्याख्या न मुनिसंमता' ॥१६॥

न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् ।
भक्ष्येष्वपि समुद्दिष्टान्सर्वान्पञ्चनखांस्तथा ॥१७॥

 न भक्षयेदिति ॥ ये एकाकिनः प्रायेण चरन्ति सर्पादयस्तानेकचरान्, तथा ये अभियुक्तैरपि नामजातिभेदेनावधार्य विभागतश्च मृगपक्षिणो न ज्ञायन्ते तान् । भक्ष्येष्वपि समुद्दिष्टानिति सामान्यविशेषनिषेधाभावेन भक्ष्यपक्षनिक्षिप्तान्भक्ष्यत्वेन समुद्दिष्टांश्च, तथा सर्वान्पञ्चनखान्वानरादीन्न भक्षयेत् ॥ १७ ॥  अत्र प्रतिप्रसवमाह-

श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा ।
भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥ १८ ॥

मनु० १६