पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२१६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१८२ मनुस्मृतिः। [ अध्यायः ५ श्वाविधमिति ॥ श्वाविधं सेधाख्यं प्राणिभेदं, शल्यकं तत्सदृशं स्थूललोमानं, तथा गोधागण्डककच्छपशशान्पञ्चनखेषु भक्ष्यान्मन्बादयः प्राहुः । तथोष्ट्रवर्जिता- नेकदन्तपतयुपेतान् ॥ १८ ॥ छत्राकं विड्राहं च लशुनं ग्रामकुक्कुटम् । पलाण्डं गृञ्जनं चैव मत्या जग्ध्वा पतेद्विजः ॥ १९ ॥ छत्राकमिति ॥ कवकग्रामसूकरलशुनादीनामन्यतमं बुद्धिपूर्वकं गुरुप्रायश्चि- त्तोपदेशादभ्यासतो भक्षयित्वा द्विजातिः पतति । ततश्च पतितप्रायश्चित्तं कुर्यात् । 'गर्हितानां तथा जग्धिः सुरापानसमानि षट्' इति ॥ १९ ॥ अमत्यैतानि षट् जग्ध्वा कृच्छं सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥२०॥ अमत्येति ॥ एतानि छत्राकादीनि पद बुद्धिपूर्वकमेव भक्षयित्वाऽभिधेयभक्ष- णस्य निमित्तत्वेन साहित्यस्याविवक्षितत्वात् । एकादशाध्यायवक्ष्यमाणस्वरूपं सप्ताहसाध्यं सान्तपनं यतिचान्द्रायणं वा चरेत् । एतद्व्यतिरिक्तेषु लोहितवृक्षनिर्या- सादिषु प्रत्येकं भक्षणांदहोरात्रोपवासं कुर्यात् । छत्राकादीनां च प्रायश्चित्तापकों वर्जनादरार्थः । शेषेषूपवसेदहः इति लाघवार्थं । तत्रहि क्रियमाणे लोहितनिर्या- सग्रहणमपि कर्तव्यं स्यात् ॥ २० ॥ संवत्सरस्सैकमपि चरेत्कृच्छ्रे द्विजोत्तमः। अज्ञातभुक्तशुद्ध्यर्थे ज्ञातस्य तु विशेषतः ॥ २१ ॥ संवत्सरस्येति ॥ द्विजोत्तमपदं द्विजातिपरम् । त्रयाणां प्रकृतत्वात्, 'एतदुक्तं द्विजातीनाम्' इत्युपसंहाराच्च । द्विजातिः संवत्सरमध्ये एकमपि कृच्छ्रे प्रथमाम्ना- नात्प्राजापत्याख्यमज्ञातभक्षणदोषोपशमनार्थमनुतिष्टेत्। ज्ञातस्य पुनरभक्ष्यभक्षण- दोषस्य विशेषतो यत्र यद्विहितं तदेव प्रायश्चित्तं कुर्यात् । यत्तु-'त्रीणि देवाः पवि- त्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते' इति तद्र- व्यशुद्धिप्रकरणपठितप्रायश्चित्तव्यतिरिक्तद्रव्यशुद्धिविशेपेऽवतिष्ठते ॥२१॥ इदानीं भक्षणप्रसङ्गेन यागाद्यर्थ हिंसामप्यनुजानाति- यज्ञार्थ ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः। भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुरा ॥ २२ ॥ यज्ञार्थमिति ॥ ब्राह्मणादिभिर्यागार्थ प्रसस्ताः शास्त्रविहिता मृगपक्षिणो वध्याः । भृत्यानां चावश्यभरणीयानां वृद्धमातापित्रादीनां संवर्धनार्थम् । यस्मादगस्त्यो मुनिः पूर्वं तथा कृतवान् । प्रकृतिरूपोऽयमनुवादः ॥ २२ ॥ बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् । पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥२३ ।।