पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
[अध्यायः ५
मनुस्मृतिः।

दधि भक्ष्यं चेति ॥शुक्तेषु मध्ये दधि भक्ष्यं दधिसंभवं च सर्वं तक्रादि । यानि तु पुष्पमूलफलैरुदकेन संधीयन्ते तानि भक्षणीयानि । शुभैरिति विशेषणोपादानान्मोहादिविकारकारिभिः कृतसंधानस्य प्रतिषेधः। तथाच बृहस्पतिः 'कन्दमूलफलैः पुष्पैः शस्तैः शुक्तान्न वर्जयेत् । अविकारि भवेद्भक्ष्यमभक्ष्यं तद्विकारकृत् ॥१०॥

क्रव्यादाञ्छकुनान्सर्वांस्तथा ग्रामनिवासिनः।
अनिर्दिष्टांश्चैकशफांष्टिट्टिभं च विवर्जयेत् ॥ ११ ॥

 क्रव्यादानिति ॥ आमं मांसं ये भक्षयन्ति ते क्रव्यादास्तान्सर्वान्गृध्रादीन्पक्षिणो वर्जयेत् । तथा ग्रामनिवासिनश्च पक्षिणः पारावतादीन् । तथा श्रुतौ केचिदेकशफा भक्ष्यत्वेन निर्दिष्टाः। तथाच 'औष्ट्रं वाडवमालभेत तस्य च मांसमश्नीयात्' इति । केचिच्चानिर्दिष्टा रासभादयस्तेषां मांसं वर्जयेत् । येऽपि यज्ञाङ्गत्वेन विहितास्तेषामपि यज्ञ एव मांसभक्षणं न सर्वदा । टिट्टिभाख्यं च पक्षिणं वर्जयेत् ॥ ११ ॥

कलवित प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् ।
सारसं रज्जुवालं च दात्यूहं शुकसारिके ॥ १२ ॥

 कलविङ्कमिति ॥ कलविङ्कं चटकं तस्य ग्रामारण्योभयवासित्वादेव निषेधः । इत्यारण्यस्याप्यभक्ष्यत्वार्थं जातिशब्देन निषेधः। प्लवाख्यं पक्षिणम् । तथा हंसचक्रवाकग्रामकुक्कुटसारसरज्जुवालदात्यूहशुकसारिकाख्यान्पक्षिणो वर्जयेत् । वक्ष्यमाणजालपादनिषेधेनैव हंसचक्रवाकयोरपि निषेधसिद्धौ पृथङ्निषधोऽन्येषामापदि जालपादानां विकल्पार्थः । स च व्यवस्थितो विज्ञेयः । आपदि भक्ष्या न त्वनापदि । इच्छाविकल्पस्य रागत एव प्राप्तेः । ग्रामकुक्कुटे तु ग्रामग्रहणमारण्यकुक्कुटाद्यनुज्ञानार्थं न त्वेतद्व्यतिरिक्तग्रामवासिविकल्पार्थम् । आपदर्थे गतप्रयोजनं भवति । वाक्यान्तरगतविशेषावधारणपरत्वस्यान्याय्यत्वात् ॥ १२ ॥

प्रतुदाञ्जालपादांश्च कोयष्टिनखविष्किरान् ।
निमज्जतश्च मत्स्यादाञ्शौनं वल्लूरमेव च ॥ १३ ॥

 प्रतुदानिति ॥ प्रतुद्य चञ्च्वा ये भक्षयन्ति तान्दार्वाघाटादीन्, जालपादानिति मालाकारपादान्शरारिप्रभृतीन्, कोयष्ट्याख्यं पक्षिणम्, नखविकिरान्नखैविकीर्य चे भक्षयन्ति तानभ्यनुज्ञातारण्यकुक्कटादिव्यतिरिक्ताञ्श्येनादीन् । तथा निमज्य ये मत्स्यान्खादन्ति तान्मद्गुप्रभृतीन्, सूना मारणस्थानं तत्र स्थितं यन्मांसं भक्ष्यमपि, वलूरं शुष्कमांसं एतानि वर्जयेत् ॥ १३ ॥

बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।
मत्स्यादान्विड्वराहांश्च मत्स्यानेव च सर्वशः ॥ १४ ॥

 बकं चैवेति ॥ बकबलाकाद्रोणकाकखञ्जनान्, तथा मत्स्यादान्पक्षिव्यतिरिक्ता-