पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२१३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ५]
१७९
मन्वर्थमुक्तावलीसंवलिता।

 लोहितानिति ॥ लोहितवर्णान्वृक्षनिर्यासान्वृक्षान्निर्गतरसान्कठिनतां यातान्वृश्चनं छेदनं तत्प्रभवानलोहितानपि । तथाच तैत्तिरीयश्रुतिः–'अथो खलु य एव लोहितो यो वा व्रश्चनान्निर्येषति तस्य नाश्यं काममन्यस्य' इति । शेलुं बहुवारकफलं, गोभवं पेयूषं नवप्रसूताया गोः क्षीरमग्निसंयोगात्कठिनं भवत्येतान्यत्नतस्त्यजेत् । 'अनिर्दशाया गोः क्षीरम्' इत्यनेनैव पेयूषस्यापि निषेधसिद्धावधिकदोषत्वात्प्रायश्चित्तगौरवज्ञापनार्थं पृथङ्निर्देशः । अतएव यत्रत इत्युक्तम् ॥ ६ ॥

वृथा कृसरसंयावं पायसापूपमेव च ।
अनुपाकृतमांसानि देवान्नानि हवींषि च ॥७॥

 वृथा कृसरेति ॥ देवताद्यनुद्देशेनात्मार्थं यत्पच्यते तद्वृथा । कृसरस्तिलेन सह सिद्ध ओदनः । तथाच छन्दोगपरिशिष्टम् 'तिलतण्डुलसंपक्वः कृसरः सोऽभिधीयते' । संयावो घृतक्षीरगुडगोधूमचूर्णसिद्धस्तत्करिकेति प्रसिद्धः । क्षीरतण्डुलमिश्रः पायसः। अपूपः पिष्टकः। एतान्वृथापक्वान्विवर्जयेत्। पशुयागादौ मन्त्रबहुलेन पशोः स्पर्शनमुपाकरणं तद्रहितः पशुरनुपाकृतस्तस्य मांसानि । देवान्नानि नैवेद्यार्थमन्नानि प्राङ्निवेदनात् , हवींषि च पुरोडाशादीनि होमात्प्राग्वर्जयेत् । अनुपाकृतमांसानीत्येतद्विशेषनिषेधदर्शनात् 'अनर्चितं वृथामांसम्' इति सामान्यनिषधो गोबलीवर्दन्यायेनानुपाकृतमांसेतरश्राद्धाद्यनुद्देश्यमांसभक्षणे पर्यवस्यति ॥ ७ ॥

अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा ।
आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः॥८॥

 अनिर्दशाया इति ॥ प्रसूताया अनिर्दशाया गोर्दुग्धं । गोरिति पेयक्षीरपशूपलक्षणार्थम् । तेनाजामहिप्योरपि दशाहमध्ये प्रतिषेधः । तथाच यमः-'अनिर्दशाहं गोक्षीरमाजं माहिषमेव च' । तथोष्ट्रभवं, अश्वाद्येकखुरसंबन्धि, मेषभवं, संधिनी या ऋतुमती वृषमिच्छती तस्याः क्षीरम् । तथाच हारीतः-'संधिनी वृपस्यन्ती तस्या पयो न पिबेतुमत्तद्भवति' । विवत्साया मृतवत्सायाः असन्निहितवत्सायाश्च श्रीरं वर्जयेत् । धेन्वधिकरणन्यायन वत्सग्रहणादेव गवि लब्धायां पुनर्गोग्रहणं गोरेव न त्वजामहिष्योरिति ज्ञापनार्थम् ॥ ८॥

आरण्यानां च सर्वेषां मृगाणां माहिषं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥९॥

 आरण्यानामिति ॥ मृगशब्दोऽत्र महिषपर्युदासात्पशुमात्रपरः । माहिषं क्षीरं वर्जयित्वा सर्वेषामारण्यप्रभवपशूनां हस्त्यादीनां क्षीरं स्त्रीक्षीरं च सर्वाणि शुक्तानि वर्जनीयानि । स्वभावतो मधुररसानि यानि कालवशेनोदकादिना चाम्लीभवन्ति तानि शुक्तशब्दवाच्यानि । 'शुक्तं पर्युषितं चैव' इति चतुर्थे कृतेऽपि शुक्तप्रतिषेधे दध्यादिप्रतिप्रसवार्थं पुनरिहोच्यते ॥ ९ ॥

दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् ।
यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥ १० ॥