वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः। |
वासोद इति ॥ वस्त्रदश्चन्द्रसमानलोकान्प्राप्नोति चन्द्रलोके चन्द्रसमविभूतिर्वसति, एवमेवाश्विलोकं घोटकदः, बलीवर्दस्य दाता प्रचुरां श्रियं, स्त्रीगवीप्रदः सूर्यलोकं प्राप्नोति ॥ २३१ ॥
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः । |
यानशय्येति ॥ रथादियानस्य शय्यायाश्च दाता भार्यां, अभयप्रदः प्राणिनामहिंसकः प्रभुत्वं, धान्यदो व्रीहियवमाषमुद्गादिसस्यानां दाता चिरस्थायि सुखित्वं, ब्रह्म वेदस्तत्प्रदो वेदस्याध्यापको व्याख्याता च ब्रह्मणः सार्ष्टितां समानगतितां तत्तुल्यतां प्राप्नोति ॥ २३२ ॥
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते । |
सर्वेषामिति ॥ उदकान्नधेनुभूमिवस्त्रतिलसुवर्णघृतादीनां सर्वेषामेव यानि दानानि तेषां मध्यात् वेददानं विशिष्यते प्रकृष्टफलदं भवति ॥ २३३ ॥
येन येन तु भावेन यद्यद्दानं प्रयच्छति । |
येन येनेति ॥ अवधारणे तुशब्दः । येन येनैव भावेनाभिप्रायेण फलाभिसंधिकः स्वर्गो मे स्यादिति, मुमुक्षुर्मोक्षाभिप्रायेण निष्कामो यद्यद्दानं ददाति तेनैव भावेनोपलक्षितस्तत्तत् दानफलद्वारेण जन्मान्तरे पूजितः सन्प्राप्नोति ॥ २३४ ॥
योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव च । |
योऽर्चितमिति ॥ योऽर्चापूर्वकमेव दाता ददाति, यश्च प्रतिग्रहीता र्चापूर्वकमेव दत्तं प्रतिगृह्णाति तावुभौ स्वर्गं गच्छतोऽनर्चितदानप्रतिग्रहणे नरकम् । पुरुषार्थे तु प्रतिग्रहेऽनर्चितमेव मया ग्रहीतव्यं नान्यथेति नियमात्फललाभो न विरुद्धः ॥ २३५॥
न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् । |
न विस्मयेतेति ॥ चान्द्रायणादितपसा कृतेन कथं ममेदं दुष्करमनुष्ठितमिति विस्मयं न कुर्यात् । यागं च कृत्वा नासत्यं वदेत् । कृतेऽपि पुरुषार्थतयानृतवदननिषेधे क्रत्वर्थोऽयं पुनर्निषेधः । ब्राह्मणैः पीडितोऽपि न तान्निन्दयेत् । गवादिकं च दत्त्वा मयेदं दत्तमिति परस्य न कथयेत् ॥ २३६ ॥