यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् । |
यज्ञ इति ॥ अनृतेन हेतुना यज्ञः क्षरति । सत्येनैव स फलं साधयति । एवं तपसि दाने च योज्यम् । विप्रनिन्दया चायुः क्षीयते ॥ २३७ ॥
धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः। |
धर्ममिति ॥ सर्वप्राणिनां पीडां परिहरन्परलोकसहायार्थं यथाशक्ति शनैःशनैर्धर्ममनुतिष्ठेत् । यथा पुत्तिकाः पिपीलिकाप्रभेदाः शनैःशनैर्महान्तं मृत्तिकाकूटं संचिन्वन्ति ॥ २३८ ॥
नामुत्र हि सहायार्थं पिता माता च तिष्ठतः । |
नामुत्रेति ॥ यस्मात्परलोके सहायकार्यसिद्ध्यर्थं न पितृमातृपत्नीज्ञातयस्तिष्ठन्ति किंतु धर्म एवैकोऽद्वितीयभावेनोपकारार्थमवतिष्ठते । तस्मात्पुत्रादिभ्योऽपि महोपकारकं धर्ममनुतिष्ठेत् ॥ २३९ ॥
एकः प्रजायते जन्तुरेक एव प्रलीयते । |
एक इति ॥ एक एव प्राण्युत्पद्यते न बान्धवैः सहितः । एक एव च म्रियते। सुकृतफलमपि स्वर्गादिकं, दुरितफलं च नरकादिकमेक एव भुङ्क्ते न मात्रादिभिः सह । तस्मान्मात्राद्यपेक्षयापि धर्मं न त्यजेत् ॥ २४० ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्ठसमं क्षितौ । |
मृतमिति ॥ मृतं शरीरं मनःप्राणादित्यक्तं लोष्टवदचेतनं भूमौ त्यक्त्वा पराङ्मुखा बान्धवा यान्ति न मृतं जीवमनुयान्ति, धर्मस्तु तमनुगच्छति ॥ २४१ ॥
तस्माद्धर्मं सहायार्थं नित्यं संचिनुयाच्छनैः। |
तस्मादिति ॥ यस्माद्धर्मेण सहायेन दुस्तरं तमो नरकादिदुःखं तरति तस्माद्धर्मं सहायभावेन सततं शनैरनुतिष्ठेत् ॥ २४२ ॥
धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् । |
धर्मप्रधानमिति ॥ धर्मपरं पुरुषं दैवादुपजाते पापे प्राजापत्यादितपोरूपप्रायश्चित्तेन हतपापं दीप्तिमन्तं प्रकृतो धर्म एव शीघ्रं ब्रह्म स्वर्गादिरूपं परलोकं नयति । खं ब्रह्मेत्याद्युपनिषत्सु खशब्दस्य ब्रह्मणि प्रयोगः । खशरीरिणं ब्रह्मस्वरूपमित्यर्थः।