तु धनदानं निषिध्यते । अतएव 'विधिनाप्यर्जितं धनं' इति वक्ष्यति । नावेदविदीति वेदार्थानभिज्ञे । एतच्च विद्वत्संभवे नावेदविदीति निषिध्यते ॥ १९२ ॥
त्रिष्वप्येतेषु दत्तं हि विधिनाप्यर्जितं धनम् । |
त्रिष्वपीति ॥ एतेषु त्रिष्वपि बैडालव्रतिकादिषु न्यायार्जितमपि धनं दत्तं दातुः प्रतिग्रहीतुश्च परलोके नरकहेतुत्वादनर्थाय भवति ॥ १९३ ॥
यथा प्लवेनौपलेन निमज्जत्युदके तरन् । |
तथा प्लवेनेति ॥ यथा पाषाणमयेनोडुपादिना जले तरंस्तेनैव सहाधो गच्छति एवं दानप्रतिग्रहशास्त्रानभिज्ञौ दातृग्राहकौ नरकं गच्छतः। 'अतपास्त्वनधीयानः' इति प्रतिग्रहीतृप्राधान्येन निन्दोक्ता । इह तु दातृप्राधान्येनेत्यपुनरुक्तिः ॥१९४॥
धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः । |
धर्मध्वजीति ॥ यो बहुजनसमक्षं धर्ममाचरति स्वतः परतश्च लोके ख्यापयति तस्य धर्मो ध्वजं चिह्नमिवेति धर्मध्वजी । लुब्धः परधनाभिलाषुकः । छद्मना व्याजेन चरतीति छाद्मिकः । लोकदम्भको निक्षेपापहारादिना जनवञ्चकः । हिंस्रः परहिंसाशीलः । सर्वाभिसंधकः परगुणासहनतया सर्वाक्षेपकः । बिडालव्रतेन चरतीति बैडालव्रतिकः । बिडालो हि प्रायेण मूषिकादिहिंसारुचितया ध्याननिष्ठ इव विनीतः सन्नवतिष्ठत इत्युपचाराद्विडालव्रतशब्दः ॥ १९५ ॥
अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः। |
अधोदृष्टिरिति ॥ अधोदृष्टिर्निजविनयख्यापनाय सततमध एव निरीक्षते । निष्कृतिर्निष्ठुरता तया चरतीति नैष्कृतिकः । स्वार्थसाधनतत्परः परार्थस्वडनेन । शठो वक्रः । मिथ्याविनीतः कपटविनयवान् । बकव्रतं चरतीति बकव्रतचरः। बको हि प्रायेण मीनहननरुचितया मिथ्याविनीतः सन्नेवंशीलो भवतीति गौणो बकव्रतशब्दः॥ १९६ ॥
ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । |
ये बकव्रतिन इति ॥ ये बकव्रतं बिडालव्रतं चरन्ति ते ब्राह्मणास्तेन पापहेतुना कर्मणान्धतामिस्रनाम्नि नरके पतन्ति ॥ १९७ ॥
न धर्मस्यापदेशेन पापं चरेत् । |