पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ४]
१६७
मन्वर्थमुक्तावलीसंवलिता।

 न धर्मस्येति ॥ पापं कृत्वा प्रायश्चित्तरूपं प्राजापत्यादिव्रतं पापमपनयति तन्नेदं प्रायश्चित्तं किंतु धर्मार्थमहमनुतिष्ठामीति स्त्रीशूद्रमूर्खादिजनमोहनं कुर्वन्नानुतिष्ठेत् ॥ १९८ ॥

प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १९९।।
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥ २०० ॥

 प्रेत्येहेति श्लोकद्वयं प्रथमं सुबोधम् । अब्रह्मचारी यो ब्राह्मणो ब्रह्मचर्यादिलिङ्गं मेखलाजिनदण्डादिवेषोपलक्षितस्तद्वृत्त्या भिक्षाभ्रमणादिना जीवति स ब्रह्मचार्यादीनां यत्पापं तदात्मन्याहरति । कुक्कुरादितिर्यग्योनौ चोत्पद्यते। तस्मादेतन्न कर्तव्यमिति निषेधः कल्प्यते ॥ १९९ ॥ २०० ॥

परकीयनिपानेषु न स्नायाच्च कदाचन ।
निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ २०१॥

 परकीयेति ॥ निपानं जलाधारः। परकृतपुष्करिण्यादिषु न कदाचित्स्नायात् । तत्र स्नात्वा पुष्करिण्यादिकर्तुर्यत्पापं तस्यांशेन वक्ष्यमाणचतुर्थभागरूपेण संबध्यते । अकृत्रिमनद्याद्यसंभवे परकृतेऽपि पुष्करिण्यादौ प्राक्प्रदानात्पञ्च पिण्डानुद्धृत्य स्नातव्यम् । तदाह याज्ञवल्क्यः-'पञ्च पिण्डाननुद्धृत्य न स्वायात्परवारिषु । उद्धृत्य चतुरः पिण्डान्पारक्ये स्नानमाचरेत् ॥ स्नात्वा च तर्पयेद्देवान्पितॄंश्चैव विशेषतः॥२०॥

यानशय्यासनान्यस्य कूपोद्यानगृहाणि च ।
अदत्तान्युपभुञ्जान एनसः स्वात्तुरीयभाक् ॥ २०२॥

 यानशय्येति ॥ अस्येति प्रकृतः पुनः परामृश्यते । परस्य यानादीन्यदत्तान्युपयुञ्जानस्तदीयपापचतुर्थभागभागी भवति । अदत्तानीति परस्यानुमत्यभावश्च विवक्षितः । तेन सर्वार्थोत्सृष्टमठकूपादावुपयोगार्थात्मस्नानादौ न विरोधः ॥ २०२ ॥

नदीषु देवखातेषु तडागेषु सरःसु च ।
स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ २०३ ॥

 नदीष्विति ॥ नद्यादिषु सर्वदा स्नानमाचरेत् । देवखातेष्विति तडागविशेषणम् । देवसंबन्धित्वेन प्रसिद्धेषु सरःसु गर्तेष्वष्टधनुःसहस्रेभ्यो न्यूनगतिषु। तदुक्तं छन्दोगपरिशिष्टे-'धनुःसहस्राण्यष्टौ च गतिर्यासां न विद्यते । न ता नदीशब्दवहा गर्तास्ताः परिकीर्तिताः ॥' चतुर्हस्तप्रमाणं धनुः । प्रस्रवणेषु निर्झरेषु चानेनैव परकीयनिपानव्यावृत्तिसिद्धौ यत्पृथग्वचनं तदात्मीयोत्सृष्टतडागादिषु स्नानाद्यनुज्ञानार्थं, तदपि नद्याद्यसंभवे द्रष्टव्यम् ॥ २०३ ॥