पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ४]
१६५
मन्वर्थमुक्तावलीसंवलिता।

न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे ।
प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ॥ १८७ ॥

 न द्रव्याणामिति ॥ द्रव्याणां प्रतिग्रहं धर्माय हितं विधानं ग्राह्यदेवताप्रतिग्रहमन्त्रादिकमज्ञात्वा क्षुधावसानं गच्छन्नपि प्राज्ञो न प्रतिगृह्णीयात्किं पुनरनापदि॥१८७॥

हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान्घृतम् ।
प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत् ॥ १८८ ॥

 हिरण्यमिति ॥ स्वर्णादीञ्श्रुतस्वाध्यायहीनः प्रतिगृह्णन्नग्निसंयोगेन दारुवद्भस्मीभूतो भवति पुनरुत्पत्तिं न लभते ॥ १८८ ॥

हिरण्यमायुरन्नं च भूर्गौश्चाप्योषतस्तनुम् ।
अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः॥१८९ ॥

 हिरण्यमिति ॥ अविदुषः प्रतिग्रहीतुर्भूर्गौश्च शरीरं ओषतो दहतः । उषदाहे भौवादिकस्तस्येदं रूपम् । भूगवोर्द्वित्वविवक्षायां द्विवचनम् । एवं हिरण्यमन्नं चायुरोषतः । अश्वश्चक्षुरित्यादिषु विभक्तिविपरिणामादोषतीत्येकवचनान्तस्यानुषङ्गः॥ १८९॥

अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः।
अम्भस्यश्मप्लवेनेव सह तेनैव मज्जति ॥ १९० ॥

 अतपास्त्विति ॥ यस्तपोविद्याशून्यः प्रतिग्रहेच्छुः ब्राह्मणो भवति स प्रतिग्रहाविनाभावाद्बुद्धिस्थेन तेन इति परामृष्टेनैव दात्रैवानर्हप्रतिग्रहादानपापयुक्तेन सह नरके मज्जति । यथा पाषाणमयेनोडुपेनाम्भस्तरंस्तेनैव सहाम्भसि मग्नो भवति ॥

तस्मादविद्वान्बिभियाद्यस्मात्तस्मात्प्रतिग्रहात् ।
स्वल्पकेनाप्यविद्वान्हि पङ्के गौरिव सीदति ॥ १९१ ॥

 तस्मादविद्वानिति ॥ यस्मादसावल्पद्रव्यप्रतिग्रहेणापि मूर्खः पङ्के गौरिव नरके समर्थो भवति तस्माद्यतःकुतश्चित्सुवर्णादिव्यतिरिक्तसीसकाद्यसारप्रतिग्रहादपि त्रस्येत् ॥ १९१ ॥

 प्रतिग्रहीतुर्धर्ममभिधायाधुना दातुराह-

न वार्यपि प्रयच्छेत्तु बैडालव्रतिके द्विजे ।
न बकव्रतिके विप्रे नावेदविदि धर्मवित् ॥ १९२ ॥

 न वार्यपीति ॥ वायसादिभ्यो यद्दीयते तदपि बैडालव्रतिकेभ्यो धर्मज्ञो न दद्यादित्यतिशयोक्त्या द्रव्यान्तरदानं निषिध्यते नतु वारिदानमेव । विकर्मस्थान् इत्यनेन बैडालव्रतिकायातिथित्वेन सत्कृतार्थदानादि निषिद्धमिह