पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
[अध्यायः ४
मनुस्मृतिः।

 ऋत्विगिति वचनद्वयम् । ऋत्विगादिभिर्वाक्कलहं न कुर्यात् । शान्त्यादिकर्ता पुरोहितः । संश्रिता अनुजीविनः । ज्ञातयः पितृपक्षाः। संबन्धिनो जामातृश्यालकादयः। बान्धका मातृपक्षाः । जामयो भगिनीस्नुपाद्याः ॥ १७९ ॥ १८० ॥

एतैर्विवादान्संत्यज्य सर्वपापैः प्रमुच्यते ।
एभिर्जितैश्च जयति सर्वांल्लोकानिमान्गृही ॥ १८१ ॥

 एतैरिति ॥ एतैर्ऋत्विगादिभिः सह विवादान्परित्यज्याज्ञातपापैः प्रमुच्यते । तथैतैर्विवादैरुपेक्षितैरिमान्वक्ष्यमाणान्सर्वलोकान्गृहस्थो जयति ॥ १८१ ॥

आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः।
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः॥ १८२ ।।

 आचार्य इति ॥ आचार्यो ब्रह्मलोकस्य प्रभुः । तेन सह विवादपरित्यागेन तत्संतुष्टया तु ब्रह्मलोकप्राप्तिर्गौणं ब्रह्मलोकेशत्वम् । एवं प्राजापत्यलोकेशः प्राजापत्ये पिता च प्रभुः । अतिथिरिन्द्रलोकेशः । देवलोकस्य च ऋत्विजः । एवमुत्तरत्रापि तत्तल्लोकेशत्वं बोद्धव्यम् ॥ १८२ ॥

जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः।
संबन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥ १८३ ॥

 जामय इति ॥ अप्सरसां लोके जामयः प्रभवन्ति । वैश्वदेवलोके बान्धवाः । वरुणलोके संबन्धिनः । भूर्लोके मातृमातुलौ ॥ १८३ ॥

आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः ।
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः॥१८४॥

 आकाशेशास्त्विति ॥ कृशः कृशधनः संश्रितो विवक्षितः। बालवृद्धसंश्रितातुरा अन्तरिक्षे प्रभवन्ति । भ्राता च ज्येष्ठः पितृतुल्यः तस्मात्सोऽपि प्रजापतिलोकप्रभुः । भार्यापुत्रौ च स्वशरीरमेव, अतः कथमात्मनैव सह विवादः संभवति ॥ १८४ ॥

छाया स्वो दासवर्गश्च दुहिता कृपणं परम् ।
तस्मादेतैरधिक्षिप्तः सहेतासंज्वरः सदा ॥ १८५॥

 छायेति ॥ स्वदासवर्गश्च नित्यानुगतत्वादात्मच्छायेव न विवादार्हः । दुहिता च परं कृपापात्रं तस्मादेतैरधिक्षिप्तः सन् असंतापः सहेत नतु विवदेत् ॥ १८५ ॥

प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् ।
प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति ॥ १८६॥

 प्रतिग्रहसमर्थोऽपीति ॥ विद्यातपोवृत्तसंपन्नतया प्रतिग्रहेऽधिकार्यपि तत्र पुनः पुनः प्रवृत्तिं त्यजेत् । यस्मात्प्रतिग्रहेणास्य वेदाध्ययनादिनिमित्तप्रभावः शीघ्रमेव विनश्यति । यात्रामात्रप्रसिद्ध्यर्थमित्युक्तेऽपि सामान्येनार्जनसंकोचे विशेषेण प्रतिग्रहस्य ब्राह्मप्रभावप्रशमनफलत्वकथनार्थं वचनम् ॥ १८६ ॥