पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ४]
१६३
मन्वर्थमुक्तावलीसंवलिता।

अधर्मेणैधते तावत्ततो भद्राणि पश्यति ।
ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥ १७४ ॥

 अधर्मेणेति ॥ अधर्मेण परद्रोहादिना तावदापाततो ग्रामधनादिना वर्धते । ततो भद्राणि बहुभृत्यगवाश्वादीनि लभते । ततः शत्रून्स्वस्मादपकृष्टाञ्जयति । पश्चात्कियता कालेनाधर्मपरिपाकवशाद्देहधनतनयादिसहितो विनश्यति ॥ १७४ ॥

सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत्सदा ।
शिष्यांश्च शिष्याद्धर्मेण वाग्बाहूदरसंयतः॥ १७५ ॥

 सत्यधर्मार्यवृत्तेष्विति ॥ सत्यधर्मसदाचारशौचेषु सर्वदा रतिं कुर्यात् । शिप्यांश्चानुशासनीयान्भार्यापुत्रदासच्छात्रान् 'रज्वा वेणुदलेन वा' इति प्रकारेण शासयेत्। उक्तानामप्यभिधानादादरार्थं वाग्बाहूदरसंयतश्च स्यात् । वाक्संयमः सत्यभाषिता। बाहुसंयमो बाहुबलेन कस्याप्यपीडनम् । उदरसंयमो यथालब्धाल्पभोजनम् ॥ १७५ ॥

परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
धर्मं चाप्यसुखोदर्कं लोकविक्रुष्टमेव च ॥ १७६ ॥

 परित्यजेदिति ॥ यावर्थकामौ धर्मविरोधिनौ भवेतां तौ परिहरेत् । यथा चौर्यादिनार्थोपपादनं, दीक्षादिने यजमानस्य पत्न्युपगमः, उदर्क उत्तरकालस्तत्रासुखं यत्र धर्मे तं धर्ममपि परित्यजेत् । यथा पुत्रादिवर्गपोष्ययुक्तस्य सर्वस्वदानम् । लोकविक्रुष्टं यत्र लोकानां विक्रोशः यथा कलौ मध्यमाष्टकादिषु गोवधादिः ॥ १७६ ॥

न पाणिपादचपलो न नेत्रचपलोऽनृजुः ।
न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः ॥ १७७ ॥

 न पाणिपादचपल इति ॥ पाण्यादिचापलं त्यजेत् । अनुपयुक्तवस्तूपादानादि पाणिचापलम् । निष्प्रयोजनं भ्रमणादि पादचापलम् । परस्त्रीप्रेक्षणादि नेत्रचापलम् । बहुगर्ह्यवादिता वाक्चापलम् । अनृजुः कुटिलो न स्यात् । परद्रोहो हिंसा तदर्थं चेष्टां धियं च न कुर्यात् ॥ १७७ ॥

येनास्य पितरो याता येन याताः पितामहाः।
तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यते ॥ १७८ ॥

 येनेति॥बहुविधशास्त्रार्थसंभवे पितृपितामहाद्यनुष्ठित एव शास्त्रार्थोऽनुष्ठातव्यः । तेन गच्छन्न रिष्यते नाधर्मेण हिंस्यते ॥ १७८ ॥

ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः ।
बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः ॥ १७९ ॥
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ।
दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ १८० ॥