पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
[अध्यायः ४
मनुस्मृतिः।

न कदाचिद्द्विजे तसाद्विद्वानवगुरेदपि ।
न ताडयेत्तृणेनापि न गात्रात्स्रावयेदसृक् ॥ १६९ ॥

 न कदाचिदिति ॥ तस्मादवगोरणादिदोषाभिज्ञो ब्राह्मणे दण्डाद्युद्यमननिपातरुधिरस्रवणानि नापद्यपि कुर्यादिति पूर्वोक्तक्रियात्रयस्योपसंहारः ॥ १६९ ॥

अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् ।
हिंसारतश्च यो नित्यं नेहासौ सुखमेधते ॥ १७ ॥

 अधार्मिक इति ॥अधर्मेण व्यवहरतीत्यधार्मिकः शास्त्रप्रतिषिद्धागम्यागमनाद्यनुष्ठाता यो मानुषो, यस्य च साक्ष्ये व्यवहारनिर्णयादौ च मिथ्याभिधानमेव धनोपायोऽसत्यमभिधायोत्कोचधनं गृह्णाति, यश्च परहिंसाभिरतः नासाविह लोके सुखयुक्तो वर्तते । तस्मादेतन्न कर्तव्यमिति निन्दया निषेधः कल्प्यते ॥ १७ ॥

न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् ।
अधार्मिकाणां पापानामाशु पश्यन्विपर्ययम् ॥ १७१ ॥

 न सीदन्नपीति ॥ शास्त्रविहितमनुतिष्ठन्धनाद्यभावेनावसीदन्नपि कदाचिन्नाधर्मे बुद्धिं कुर्यात् । यस्मादधर्मव्यवहारिणो यद्यप्यापाततो धनादिसंपद्भागिनोऽपि दृश्यन्ते तथापि तेषामधार्मिकाणामधर्मचौरादिव्यवहारिणां पापिनां तज्जनितदुरितशालिनां शीघ्रं धनादिविपर्ययोऽपि दृश्यते । तं पश्यन्नाधर्मे धियं दद्यादिति शिष्यहिताय दृष्टमर्थं दर्शितवान् ॥ १७१ ॥

नाधर्मश्चरितो लोके सद्यः फलति गौरिव ।
शनैरावर्तमानस्तु कर्तुर्मूलानि कृन्तति ॥ १७२ ॥

 नाधर्म इति ॥ शास्त्रेणानियमितकालपरिपाकत्वाच्छुभाशुभकर्मणां नाधर्मोऽनुतिष्ठतः तत्काल एव फलति । गौरिवेह भूमिपक्षे साधर्म्यदृष्टान्तः । यथा भूमिरुप्तबीजमात्रा तदैव प्रचुरपचेलिमफलब्रीहिस्तबकसंवलिता न भवति किंतु नियमफलपाकसमयमासाद्य । पशुपक्षे वैधर्म्यदृष्टान्तः। यथा गौः पशुर्वाहिदोहाभ्यां सद्यः फलति नैवमधर्मः किंतु क्रमेणावर्तमानः फलोन्मुखीभवन्नधर्मकर्तुर्मूलानि छिनत्ति । मूलच्छेदेन सर्वनाशो लक्ष्यते । देहधनाद्यन्वितो नश्यति ॥ १७२ ॥

यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु ।
न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः॥१७३ ॥

 यदीति ॥ यदि स्वयं कर्तुर्देहधनादिनाशं फलं न जनयति, तदा तत्पुत्रेषु नोचेत्पौत्रेषु जनयति नतु निष्फल एव भवति । ननु अन्यकृतस्य कर्मणः कथमन्यत्र फलजनकत्वम् । उच्यते । पुत्रादिनाशस्य पितुः क्लेशहेतुत्वाच्छास्त्रीयत्वाच्चास्यार्थस्य नाविश्वासः ॥ १७३ ॥