पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१६७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ४] मन्वर्थमुक्तावलीसंवलिता। १३३ सत्यानृतं त्विति ॥ प्रायेण सत्यानृतव्यवहारसाध्यत्वात्सत्यानृतं वाणिज्यम् । नतु वाणिज्ये शास्त्रेण सत्यानृताभ्यनुज्ञातं । तेन चैवापि जीव्यत इति चशब्देन वाणि- ज्यसमशिष्टत्वात्कुसीदमपि गृह्यते। पूर्वश्लोकोक्ता कृषिरेतच्छोके च वाणिज्यकुसीदे। अनापदीत्यनुवृत्तेरस्वयंकृतान्येतानि बोद्धव्यानि । यथाह गौतमः । कृषिवाणिज्ये स्वयं चाकृते कुसीदं च । सेवा तु दीनदृष्टिसंदर्शनस्वामितर्जननीचक्रियादि- धर्मयोगाच्छुन इव वृत्तिरतः श्ववृत्तिरुक्ता तस्मात्तां प्रकृतो ब्राह्मणस्त्यजेत् ॥ ६ ॥ कुमूलधान्यको वा स्यात्कुम्भीधान्यक एव वा। त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा ॥७॥ कुसूलधान्यक इति ॥ 'कुसूलो ब्रीह्यगारं स्यात्' इत्याभिधानिकाः । इष्टकादिनि- मितागारधान्यसंचयो भवेत् । अत्र कालविशेषापेक्षायां 'यस्य त्रैवार्षिकं भक्तं पर्याप्त भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुमर्हति' इति मनूक्त एव कालो ग्राह्यः । तेन नित्यनैमित्तिकधर्मकृत्यपोष्यवर्गसहितस्य गृहिणो यावता धान्यादिध- नेन वर्षत्रयं समधिकं वा निर्वाहो भवति तावद्धनः कुसूलधान्यक उच्यते । वर्षनि- वाहोचितधान्यादिधनः कुम्भीधान्यः । 'प्राक् मौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिक भवेत्' इति याज्ञवल्क्येन गृहस्थस्य वार्षिकसंचयाभ्यनुज्ञानात् । मनुरपि यदा वानप्रस्थस्यैव समानिचय एव वेत्यनेन समानिचयं वक्ष्यति तदपेक्षया बहुपोष्यव- र्गस्य गृहिणः समुचितः संवत्सरं संचयः । मेधातिथिस्तु यावता धान्यादिधनेन बहुभृत्यदारादिमतस्विसंवत्सरस्थितिर्भवति तावन्सुवर्णादिधनवानपि कुसूलधान्य इत्यभिधाय कुम्भी उष्ट्रिका पाण्मासिकधान्यादिनिचयः कुम्भीधान्यक इति व्याख्या- तवान् । गोविन्दराजस्तु कुसूलधान्यक इत्येतद्व्याचक्ष्य कोष्टप्रमाणधान्यसंचयो वा स्यात् द्वादशाहमात्रपर्याप्तधनः कुम्भीधान्यक इत्येतद्याचष्टे । उष्ट्रिकाप्रमाणधा- न्यादिसंचयो वा षडहमात्रपर्याप्तधनः। 'द्वादशाहं कुसूलेन वृत्तिः कुम्भ्या दिनानि पद । इमामनूनां गोविन्दराजोक्तिं नानुरुन्ध्महे ॥' ईहा चेष्टा तस्यां भवं ऐहिकं व्यहपर्याप्तमैहिकं धनं यस्य स त्र्यहैहिकः तथा वा स्यात् । दिनत्रयनिर्वाहोचितध- नमित्यर्थः । श्वो भवं श्वस्तनं भक्तं तदस्यास्तीति मन्वर्थीयमिकं कृत्वा नसमासः । तथा वा भवेत् ॥ ७ ॥ चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् । ज्यायान्परः परो ज्ञेयो धर्मतो लोकजित्तमः॥८॥ चतुर्णामपीति ॥ एषां चतुर्णामपि कुसूलधान्यकादीनां ब्राह्मणानां गृहस्थाना मध्ये यो यः शेषे पठितः स श्रेष्टो ज्ञातव्यः। यतोऽसौ वृत्तिसंकोचधर्मेण स्वर्गा- दिलोकजित्तमो भवति ॥ ८ ॥ षट्कर्मको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥ ९ ॥ षट्कर्मेति । एषां गृहस्थानां मध्ये कश्चिद्गृहस्थो यो बहुपोष्यवर्गः स प्रकृतैर्ऋ- मन० १२