पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१६८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१३४ मनुस्मृतिः । [ अध्यायः ४ तायाचितभैक्षकृषिवाणिज्यैः पञ्चभिस्तेन चैवेत्यनेनैव चशब्दसमुच्चितेन कुसीदेने- येवं षडिः कर्मभिः षट्कर्मा भवति षडिरेतैर्जीवति । कृषिवाणिज्यकुसीदान्येता- न्यस्वयं कृतानि गौतमोक्तानीत्युक्तम् । अन्यः पुनस्ततोऽल्पपरिकरः विभिर्याज- नाध्यापनप्रतिग्रहैरद्रोहेणेत्येतच्छोकसंगृहीतैः प्रवर्तते । प्रशब्दोऽनर्थको वर्तेत इ- त्यर्थः । अपरः पुनः प्रतिग्रहः प्रत्यवर इति वक्ष्यमाणत्वात्तत्परित्यागेन द्वाभ्यांयाज- नाध्यापनाभ्यां प्रवर्तते । उक्तत्रयापेक्षया चतुर्थः पुनर्ब्रह्मसत्रेणाध्यापनेन जीवति । मेधातिथिस्तु एपां कुसूलधान्यकादीनां मध्यादेकः कुसूलधान्यकः प्रकृतैरुञ्छशि- लायाचितकृषिवाणिज्यैः षट्कर्मा भवति पडिर्जीवति । अन्यो द्वितीयः कुम्भीधा- न्यकः कृषिवाणिज्ययोनिन्दितत्वात्तत्तत्त्याग उच्छशिलयाचितायाचितानां मध्या- दिच्छातस्विभिर्वर्तेत । एकस्यहैहिकोऽयाचितलाभं विहायोञ्छशिलायाचितानां मध्यादिच्छया द्वाभ्यां वर्तेत । चतुर्थः पुनरश्वस्तनिको ब्रह्मसत्रेण जीवति । ब्रह्मसत्र- शिलोञ्छयोरन्यतरा वृत्तिः । ब्रह्मणो ब्राह्मणस्य सततभवत्वात्सत्रमित्याह ॥ ९ ॥ वर्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः । इष्टीः पार्वायनान्तीयाः केवला निर्वपेत्सदा ॥१०॥ वर्तयश्चेति ॥ शिलोन्छाभ्यां जीवन्धनसाध्यकर्मान्तरानुष्ठानासामर्थ्यादग्निहो- त्रनिष्ट एव स्यात् । पार्वायनान्तीयाश्च इष्टीः केवला अनुतिष्ठेत् । पर्व च अयनं च पर्वायने तयोरन्तस्तत्र भवा दर्शपौर्णमासाग्रयणात्मिकाः ॥१०॥ न लोकत्तं वर्तेत वृत्तिहेतोः कथंचन । अजिह्मामशठां शुद्धां जीवेद्राह्मणजीविकाम् ॥ ११ ॥ न लोकवृत्तमिति ॥ लोकवृत्तमसत्प्रियाख्यानं विचित्रपरिहासकथादिकं जीवि- कार्थं न कुर्यात् । अजिह्मां मृषात्मगुणार्थाभिधानादिपापरहिताम् । अशठां दम्भा- दिव्याजशून्याम्। शुद्धां वैश्यादिवृत्तेरसंकीर्णी ब्राह्मणजीविकामनुतिष्ठेत् । अनेकार्थ- त्वाद्धातूनामनुष्ठानार्थोऽयं जीवतिरिति सकर्मकता ॥ ११ ॥ संतोषं परमास्थाय सुखार्थी संयतो भवेत् । संतोषमूलं हि सुखं दुःखमूलं विपर्ययः॥ १२ ॥ संतोपमिति ॥ यथासंभवभृत्यात्मप्राणधारणावश्यकपञ्चयज्ञाद्यनुष्ठानमात्रोचित- धनानधिकास्पृहा संतोषः तमतिशयितमालम्ब्य प्रचुरधनार्जने संयमं कुर्यात् । यतः संतोषहेतुकमिति सुखं,परत्र चाव्यग्रस्य विहितानुष्ठानात्स्वर्गादिसुखं, विपर्यय- स्त्वसंतोपो दुःखमूलं बहुधनार्जनप्रयासेन प्रचुरदुःखादसंपत्तौ च क्लेशात् ॥ १२ ॥ अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः । स्वर्गायुष्ययशस्यानि व्रतानीमानि धारयेत् ॥ १३ ॥ अतोऽन्यतमेति ॥ अबहुभृत्यस्यैकवृत्त्या निर्वाहसंभवे सत्यन्यतममेति विधीयते।