पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१६६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१३२ मनुस्मृतिः। [ अध्यायः ४ अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय विमो जीवेदनापदि ॥२॥ अद्रोहेणेति ॥ परस्यापीडा शिलोछायाचितादिरद्रोहः ईषत्पीडा याचितादि- रल्पद्रोहः नतु हिंसैव द्रोहः तस्या निपिद्धत्वात् । अद्रोहेण तदसंभवेऽल्पद्रोहेण या वृत्तिर्जीवनोपायः तदाश्रयणेन भार्यादिभृत्यपञ्चयज्ञानुष्टानयुक्तो ब्राह्मणो नतु क्षत्रि- यादिरनापदि जीवेत् । आपदि दशमे विधिर्भविष्यति । अयं च सामान्योपदेशो याज- नाध्यापनविशुद्धप्रतिग्रहादिसंग्रहार्थः । वक्ष्यमाणादिविशेषमात्रनिष्टत्वे संकुचित- स्वरसत्वहानिरनधिकारार्थत्वं याजनादेर्वृत्तिप्रकरणानिवेशश्व स्यात्तयापि जीवेत्॥२॥ यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितः। अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ॥३॥ यात्रेति ॥ यात्रा प्राणस्थितिः शास्त्रीयकुटुम्बसंवर्धननित्यकर्मानुष्ठानपूर्वकमाण- स्थितिमात्रार्थ न भोगाथै स्वसंबन्धितया शास्त्रविहितार्जनरूपैः कर्ममित्रतादिव- क्ष्यमाणैः कायक्लेशं विनाऽर्थसंग्रहं कुर्यात् ॥ ३ ॥ कैः कर्मभिरित्यत्राह- ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ ४ ॥ ऋतामृताभ्यामिति ॥ अनापदीत्यनुवर्तते । ऋतादिभिरनापदि जीवेत् । सेवया त्वनापदि कदापि न वर्तेत ॥ ४ ॥ अप्रसिद्धत्वाहतादीनि व्याचष्टे- तमुञ्छशिलं ज्ञेयममृतं स्सादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥५॥ ऋतमुञ्छशिलमिति ॥ अबाधितस्थानेषु पथि वा क्षेत्रेषु वाप्रतिहतावकाशेषु यत्र यत्रौपधयो विद्यन्ते तत्र तत्राङ्गुलिभ्यां एकैकं कणं समुच्चयित्वेति बौधायन- दर्शनात् एकैकधान्यादिगुडकोच्चयनमुन्छः । मार्यात्मकानेकधान्योच्चयनं शिलः, उञ्छश्च शिलश्चैत्येकवद्भावः तत्सत्यसमानफलत्वाहतमित्युच्यते । अयाचितोपस्थित- ममृतमिव सुखहेतुत्वादमृतं । प्रार्थितं पुनभैक्षं भिक्षासमूहरूपं मरणशरणपीडाज- ननान्मृतम् । एतच्च साग्नेर्गृहस्थस्य भैक्षमपक्वतण्डुलादिरूपं नतु सिद्धान्नं पराग्नि- पक्केन स्वाग्नौ होमाभावात् । कर्षणं च भूमिगतप्रचुरप्राणिमरणनिमित्तत्वाबहुदुःख- फलकं प्रकर्षण मृतमिव प्रमृतम् ॥ ५ ॥ सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् ॥ ६॥