पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१६५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ४ ] मन्वर्थमुक्तावलीसंवलिता। १३१ विषसाशी भवेनित्यं नित्यं वामृतभोजनः । विधसो भुक्तशेषं तु यज्ञशेषं तथामृतम् ॥२८५ ॥ विघसाशीति ॥ सर्वदा विघसभोजनः स्यात्सर्वदा चामृतभोजनो भवेत् । विध- सामृतपदयीरप्रसिद्धत्वादर्थ व्याकुरुते । विप्रादिभुक्तशेषं विघस उच्यते । दर्शपौर्ण- मासादियज्ञशिष्टं पुरोडाशाद्यमृतम् । सामान्याभिधानेऽपि प्रकृतत्वाच्छ्राद्धे विप्र- भुक्तशेषभोजनार्थोऽयं विधिः । अतएव 'भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवि- तम्' इति स्मृत्यन्तरम् । अतिथ्यादिविशेषाभोजनं तु 'अवशिष्टं तु दम्पती' इत्यने- नैव विहितम् । तस्यैव यज्ञशेपतुल्यत्वापादनेन स्तुत्यर्थं पुनर्वचनमिति तु गोवि- न्दराजव्याख्यानमनुष्टानविशेषानहमपाकरणिकं च ॥ २८५॥ एतद्वोऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् । द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति ॥ २८६ ॥ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां तृतीयोऽध्यायः ॥ ३॥ एतदिति ॥ इदं पञ्चयज्ञभवमनुष्टानं सर्वं युष्माकमुक्तम् । पार्वणश्राद्धव्यवहि- तैरपि पञ्चयज्ञैरुपसंहारस्तेषामभ्यर्हितत्वज्ञापनार्थः । मङ्गलार्थ इति तु मेधातिथि- गोविन्दराजौ । इदानी द्विजानां मुख्यो ब्राह्मण वृत्तीनामृतादीनामनुष्टानं श्रूयतामिति वक्ष्यमाणाध्यायैकदेशोपन्यासः ॥ २८६ ॥ इति श्रीकुळूकभट्टकृतायां मन्वर्थमुक्तावल्यां मनुवृत्तौ तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः। श्राद्धकल्पानन्तरं 'वृत्तीनां रक्षणं चैव' इति वृत्तिषु व्यक्ततया प्रतिज्ञातासु वृत्त्य- धीनत्वाद्गार्हस्थ्यस्यानन्तरं वक्तव्यासु ब्रह्मचर्यपूर्वकमेव गार्हस्थ्यं तत्रैव चात्र वक्ष्य- माणा वृत्तय इति दर्शयितुं ब्रह्मचर्यकालं गार्हस्थ्यकालं चात्र वदति- चतुर्थमायुषो भागमुषित्वाचं गुरौ द्विजः । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥१॥ चतुर्थमिति ॥ चतुर्थमायुषो भागमाद्यमित्युक्तं ब्रह्मचर्यकालोपलक्षणार्थम् । अनियतपरिमाणत्वादायुषश्चतुर्थभागस्य दुर्ज्ञानत्वात् । नच 'शतायुर्वै पुरुषः' इति श्रुतेः पञ्चविंशतिवर्षपरत्वम् । पत्रिंशदाब्दिकं ब्रह्मचर्यमित्यादिविरोधात् । आश्र- मसमुच्चयपक्षमाश्रितो ब्राह्मण उक्तब्रह्मचर्यकालं जन्मापेक्षाचं यथाशक्ति गुरुकुले स्थित्वा द्वितीयमायुषश्चतुर्थभागं गृहस्थाश्रममनुतिष्ठेत् । 'गृहस्थस्तु यदा पश्येत्' इत्यनियतत्वाद्वितीयमायुषो भागमित्यपि गार्हस्थ्यकालमेव ॥१॥