पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१६३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। १२९ कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः॥२७६ ॥ कृष्णेति ॥ कृष्णपक्षे दशमीमारभ्य चतुर्दशी त्यक्त्वा श्राद्धे यथा तिथयः श्रेष्ठा महाफला न तथैतदन्याः प्रतिपदादयः ॥ २७६ ॥ युक्षु कुर्वन्दिनर्वेषु सर्वान्कामान्समश्नुते । अयुक्षु तु पितॄन्सर्वान्प्रजां प्राप्नोति पुष्कलाम् ॥ २७७ ॥ युध्विति ॥ दिनशब्दोऽत्र तिथिपरः। युक्षु युग्मासु तिथिषु द्वितीयाचतुर्थ्यादिषु युग्मनक्षत्रेषु भरणीरोहिण्यादिषु श्राद्धं कुर्वन्सर्वाभिलषितान्प्रामोति । अयुग्मासु तिथिषु प्रतिपत्तृतीयाप्रभृतिषु, अयुग्मेषु च नक्षत्रेष्वश्विनीकृत्तिकादिषु श्राद्धेन पितॄन्पूजयन्पुनादिसंततिं लभते । पुष्कलां धनविद्यापरिपुष्टाम् ॥ २७७ ॥ यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते । तथा श्राद्धस्स पूर्वाह्नादपराह्नो विशिष्यते ॥ २७८ ॥ यथेति ॥ चैत्रसिताद्या मासा इति ज्योतिःशास्त्रविधानाच्छुक्लपक्षोपक्रमत्वान्मा- सानां अपरः पक्षः कृष्णपक्षः स यथा शुक्लपक्षात् श्राद्धस्य संबन्धी विशिष्टफलदो भवति, एवं पूर्वार्धदिवसादुत्तरार्धदिवसः प्रकृष्टफलो विशिष्यत इति वचनात्पू- वाढेऽपि श्राद्धकर्तव्यतां बोधयति ॥ ननु शुक्लपक्षादनुक्तोत्कर्षस्यापरपक्षस्य कथं दृष्टान्तता । प्रसिद्धो हि दृष्टान्तो भवति । उच्यते । 'कृष्णपक्षे दशम्यादौ' इत्यत्रेव विशिष्टविधावुत्कर्षाभिधानात् ॥ २७८ ॥ प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । पित्र्यमानिधनात्कार्य विधिवदर्भपाणिना ॥२७९ ॥ प्राचीति ॥ दक्षिणसंस्थितयज्ञोपवीतेनानलसेन दर्भहस्तेन अपसव्यं पितृतीर्थेन यथाशास्त्रं सर्व पितृसंबन्धि कर्म आनिधनादासमाप्तेः कर्तव्यम् । आनिधनाद्याव- जीवमिति मेधातिथिगोविन्दराजौ ॥ १७९ ॥ रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा । संध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ॥ २८० ॥ रात्राविति ॥ रात्रौ श्राद्धं न कर्तव्यम् । यस्माच्छ्राद्धविनाशनगुणयोगादाक्षसी मन्वादिभिरसौ कथिता । संध्ययोश्च न कुर्यात् । आदित्ये चाचिरोदिते अचिरोदिता- दित्यकालश्चापेक्षायां त्रिमुहूर्तः प्रातःकालो ग्राह्यः । यथोक्तं विष्णुपुराणे- रेखामभृ- त्यथादित्ये त्रिमुहूर्त गते रवौ । प्रातस्ततः स्मृतः कालो भागः सोऽह्नस्तु पञ्चमः॥' अपराह्नस्य श्राद्धाशतया विधानात्कथमयमप्रसक्तप्रतिपेध इति चेत् । नाय प्रतिषेधः । स हि वा स्याद्विधिप्राप्तस्य वा । नायः । नात्र रागतो