पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
[अध्यायः३
मनुस्मृतिः ।

 संवत्सरमिति ॥ वर्षे पुनर्गोभवक्षीरेण तत्साधितोदनेन च तुप्यन्ति । तत्रैव पायसशब्दप्रसिद्धेः । वाघ्रीणसस्य मांसेन द्वादशवर्षपर्यन्तं पितृतृप्तिर्भवति । वाघ्रीणसश्च निगमे व्याख्यातः-'त्रिपिबं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाघ्रीणसं तु तं प्राहुर्याज्ञिकाः पितृकर्मणि' । नद्यादौ पयः पिबतो यस्य त्रीणि जलं स्पृशन्ति कर्णौ जिह्वा च त्रिभिः पिबतीति त्रिपिबः ॥ २७१ ॥

कालशाकं महाशल्काः खड्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ २७२ ॥

 कालेति ॥ कालशाकाख्यं शाकम् । महाशल्काः सशल्का इति मेधातिथिः । मत्स्यविशेषा इति युज्यन्ते । 'महाशल्कलिनो मत्स्याः' इति वचनात् । खड्गो गण्डकः। लोहो लोहितवर्णश्छागएव 'छागेन सर्वलोहेनानन्त्यम्' इति पैठीनसिवचनात्तयोरामिषम्, मधु माक्षिकम् , मुन्यन्नानि नीवारादीन्यारण्यानि सर्वाणि, एतान्यनन्ततृप्तये संपद्यन्ते ॥ २७२ ॥

यत्किंचिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् ।
तदप्यक्षयमेव स्याद्वर्षासु च मघासु च ॥ २७३ ॥

 यदिति ॥ ऋतुनक्षत्रतिथीनामयं समुच्चयः । यत्किंचिदित्यप्रसिद्धं मधुसंयुक्तं वर्षाकाले मघात्रयोदश्यां दीयते तदप्यक्षयमेव भवति । त्रयोदश्या अधिकरणत्वेऽपीप्सितत्वविवक्षया प्राप्येत्यध्याहाराद्वा द्वितीया ॥ २७३ ॥

अपि नः स कुले जायाद्यो नो दद्यात्त्रयोदशीम् ।
पायसं मधुसर्पिार्भ्यां प्राक्छाये कुञ्जरस्य च ।। २७४ ॥

 अपीति ॥ वर्षासु मघायुक्तत्रयोदशी पूर्वोक्ता विवक्षिता । तत्रापि 'प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्य श्राद्धं हि कर्तव्यं मधुना पायसेन च' इति शङ्खवचनाद्भाद्रकृष्णत्रयोदशी पूर्वत्रेह च गृह्यते । पितरः किलैवमाशासते अपि नाम तथाविधः कश्चिदस्माकं कुले भूयात् योऽस्मभ्यं प्रकृतायां त्रयोदश्यां तथा तिथ्यन्तरेऽपि हस्तिनः पूर्वां दिशं गतायां छायायां मधुघृतसंयुक्तं पायसं दद्यात् । नतु त्रयोदशीहस्तिच्छाययोः समुच्चयः । यथाह विष्णुः - 'अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । प्रावृट्काले सिते पक्षे त्रयोदश्यां समाहितः ॥ मधुप्लुतेन यः श्राद्धं पायसेन समाचरेत् ॥ कार्तिकं सकलं वापि प्राक्छाये कुञ्जरस्य च ॥ २७४ ॥

यद्यद्ददाति विधिवत्सम्यक् श्रद्धासमन्वितः।
तत्तत्पितॄणां भवति परत्रानन्तमक्षयम् ।। २७५ ।।

 यदिति ॥ यद्यदिति वीप्सायाम् । सर्वमन्नमप्रतिषिद्धं यथाशास्त्रं सम्यग्रूपश्रद्धायुक्तः पितृभ्यो ददाति तदनन्तकं सर्वकालमक्षयमनपचितं परलोके पितृतृप्तये भवति । अतस्तत्फलार्थिना श्रद्धया देयमिति विधीयते ॥ २७५ ॥