दूरादिति ॥ दूरादेव पितृपितामहाद्यभिजनशुद्धिनिरूपणेन कृत्स्नशाखाध्यायिनं ब्राह्मणं परीक्षेत । यस्मात्तथाविधो ब्राह्मणो हव्यादीनां तीर्थं पात्रम् । प्रदाने सोऽनिथिरेव महाफलप्राप्तेर्हेतुत्वात् ॥ १३० ॥
सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते । |
सहस्रमिति ॥ यत्र श्राद्धे ब्राह्मणानामवेदविदां दशलक्षाणि भुञ्जते तत्रैको वेदविद्भोजनेन परितुष्टो धर्मतो धर्मोत्पादनेन तान्सर्वानर्हति स्वीकर्तुं योग्यो भवति । तद्भोजनजन्यं फलं जनयतीत्यर्थः । छान्दसत्वादेकवचनम् । अथवा बहुवचनानां स्थाने सहस्रमिति मनोरभिमतम् । गोविन्दराजस्त्वाह ‘सहस्रं गच्छन्तु भूतानि' इति वेदे ॥ १३१ ॥
ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च । |
ज्ञानेति ॥ विद्यया उत्कृष्टेभ्यो हव्यानि कव्यानि च देयानि न मूर्खेभ्यः। अर्थान्तरन्यासो नामालंकारः। नहि रक्ताक्तौ हस्तौ रक्तेनैव विशुद्धौ भवतः किंतु चिमलजलेन, एवं मूर्खभोजनेन जनितं दोषं न मूर्ख एव भोजितोऽपहन्ति किंतु विद्वान् ॥३२॥
अविद्वन्निन्दया विद्वद्दानमेवोक्तं वक्रोक्त्या स्तौति-
यावतो ग्रसते ग्रासान्हव्यकव्येष्वमन्त्रवित् । |
यावत इति ॥ यत्संख्याकान्प्रासान्हव्यकव्येष्ववेदविद्भुङ्क्ते तत्संख्याकानेव प्रकृतश्राद्धकर्ता ज्वलितशूलर्ष्ट्यख्यायुधलोहपिण्डान्ग्रसते । श्राद्धकर्तुरेवेदमविद्वद्दानफलकथनम् । तथाच व्यासः - 'ग्रसते यावतः पिण्डान्यस्य वै हविषोऽनृचः। ग्रसते तावतः शूलान्गत्वा वैवस्वतक्षयम्' ॥ १३३ ॥
ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथापरे । |
ज्ञानेति ॥ केचिदात्मज्ञानपरा ब्राह्मणा भवन्ति, अन्ये प्राजापत्यादितपःप्रधानाः, अपरे तपोध्ययननिरताः, इतरे यागादिपराः ॥ १३४ ॥
ततः किमत आह-
ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः । |
ज्ञानेति ॥ ज्ञानप्रधानेभ्यः पित्रर्थान्नानि यत्नाद्दातव्यानि, देवान्नानि पुनर्न्यायावधृतार्थशास्त्रानुसारेण चतुर्भ्योऽपि ॥ १३५ ॥
अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः । |