पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
[अध्यायः३
मनुस्मृतिः।

तमः-'नचावरान्भोजयेदयुजो वा यथोत्साहम्' । बह्वृचगृह्यकारोऽपि-'अथातः पार्वणे श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा ब्राह्मणान्' इत्युपक्रम्य एकैकमेकैकस्य द्वौ द्वौ त्रींस्त्रीन्वा वृद्धौ फलभूयस्त्वम्' इत्याह । द्वौद्वावित्याभ्युदयिकश्राद्धविषयं स्मृत्यन्तरेषु तथा विधानात् , अत्राप्याभ्युदयिक इत्युपक्रमाच्च ॥ १२६॥

प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये ।
तस्मिन्युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ १२७॥

 प्रथितेति ॥ यदेतत्पित्र्यं कर्म श्राद्धरूपं प्रथममियं प्रख्याता प्रेतकृत्या पित्रुपकारार्था क्रिया । प्रकर्षेण इतः प्रेतः पितृलोकस्थ एवोच्यते । विधुक्षयेऽमावास्यायां तस्मिन्पित्र्ये कर्मणि युक्तस्यैतत्परस्य लौकिकी स्मार्तिकी प्रेतकृत्या पित्रुपकारार्थी क्रिया गुणवत्पुत्रपौत्रधनादिफलप्रबन्धरूपेण कर्तारमुपतिष्ठते तस्मादिदं कर्तव्यम् । गोविन्दराजेन तु विधिः क्षय इति पठितं, व्याख्यातं च योऽयं नामविधिः पित्र्यं कर्मेति क्षये चन्द्रक्षये गृहे वा तदसांप्रदायिकम् । मेधातिथिप्रभृतिभिर्गोविन्दराजादपि वृद्धतरैरनभ्युपेतत्वात्क्षय इति संबन्धक्लेशाच्च ॥ १२७ ॥

श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ १२८ ॥

 श्रोत्रियायेति ॥ छन्दोमात्राध्यायी श्रोत्रियस्तस्मै दैवपित्र्यान्नानि यत्नतो देयानि । अर्हत्तमाय श्रुताचाराभिजनादिभिः पूज्यतमाय तस्मै दत्तं महाफलं भवति ॥१२८॥

एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
पुष्कलं फलमाप्नोति नामन्त्रज्ञान्बहूनपि ॥ १२९ ॥

 एकैकमिति ॥ दैवपित्र्ययोरेकैकमपि वेदतत्त्वविदं ब्राह्मणं भोजयेत् । तदापि विशिष्टं श्राद्धफलं प्राप्नोति नत्वविदुषो बहूनपि । एवंच 'फलश्रवणाद्ब्राह्मणभोजनमेव प्रधानं पिण्डदानादिकं त्वङ्गम्' इति गोविन्दराजः । वयं तु पित्रुद्देशेन द्रव्यत्यागं ब्राह्मणस्वीकारपर्यन्तं श्राद्धशब्दवाच्यं प्रधानं ब्रूमः । तदेव मनुना 'पिण्डान्वाहार्यकं श्राद्धं कुर्यात्' इति विहितम् । आपस्तम्बेन तु मन्वर्थस्यैव व्याख्यातत्वात् । तदाहापस्तम्बः 'तथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच प्रजानिः- श्रेयसार्थं तत्र पितरो देवता ब्राह्मणस्त्वाहवनीयार्थे मासि मास्यपरपक्षस्यापराह्णः श्रेयान्' इति । श्राद्धशब्दं श्राद्धमिति शब्दो वाचको यस्य तत्तथा । ब्राह्मणस्त्वाहवनीयार्थे आहवनीयवत्त्यक्तव्यप्रतिपत्तिस्थानत्वात् । पितरो देवतेति नियतपितृदेवताकत्वाच्च श्राद्धस्य । देवताश्राद्धादौ श्राद्धशब्दस्तु तद्धर्मप्राप्त्यर्थो गौणः । कौण्डपायिनामयन इवाग्निहोत्रशब्दः । पुष्कलं फलं प्राप्नोतीति तु पुष्टतरफलार्थिनो गुणफलविधिः । स भोजनस्याङ्गत्वेऽपि तदाश्रयो न विरुद्धः । 'आपस्तम्बोऽभ्यधाच्छ्राद्धं कर्मैतत्पितृदैवतम् । मन्वर्थं कथयंस्तस्मान्नेदं ब्राह्मणभोजनम् ॥३२९॥

दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ॥ १३०॥