पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
[अध्यायः३
मनुस्मृतिः।

 अश्रोत्रिय इति ॥ योऽश्रोत्रियपितृकः स्वयं च श्रोत्रियः, यः श्रोत्रियपितृकः स्वयं वा अनोत्रियः ॥ १३६ ॥

ज्यायांसमनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता।
मन्त्रसंपूजनार्थं तु सत्कारमितरोSर्हति ॥ १३७ ॥

 ज्यायांसमिति ॥ अनयोः पूर्वश्लोकनिर्दिष्टयोर्मध्ये श्रोत्रियपुत्रं स्वयमश्रोत्रियमपि ज्येष्ठं जानीयात् । पितृविद्यादरपरमिदम् । यः पुनरश्रोत्रियस्य पुत्रः स्वयं च श्रोत्रियः स तदधीतवेदपूजनार्थं पूजामर्हति । वेद एव तद्द्वारेण पूज्यत इति पुत्रविद्यादरपरमिदम् । तस्माद्वचनभङ्गया श्रोत्रियपुत्रः स्वयं च श्रोत्रियः श्राद्धे भोजयितव्य इत्युक्तम् । नतु श्रोत्रियपुत्रस्य स्वयमश्रोत्रियस्यैवाभ्यनुज्ञानं श्रोत्रियायैव देयानीति विरोधात्, एवंच 'दूरादेव परीक्षेत' इति विद्याव्यतिरिक्ताचारादि परीक्षार्थत्वेनावतिष्ठते ॥ १३७ ॥

न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः।
नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्विजम् ॥ १३८ ॥

 नेति ॥ श्राद्धे न मित्रं भोजयेत् । धनान्तरैरस्य मैत्री संपादनीया । न शत्रुं नच मित्रं यं जानीयात्तं ब्राह्मणं श्राद्धे भोजयेत् ॥ १३८ ।

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ १३९ ।।

 यस्येति ॥ मित्रशब्दोऽयं भावप्रधानः । यस्य मैत्रीप्रधानानि हव्यकव्यानि तस्य पारलौकिकं फलं न भवतीति फलाभावकथनपरमिदम् । प्रेत्येति परलोक इत्यर्थे शब्दान्तरमव्ययमिदं नतु क्त्वान्तम्, तेनासमानकर्तृकत्वे कथं क्त्वेति नाशङ्कनीयम् ॥ १३९॥

 स्वर्गफलं श्राद्धस्य दर्शयितुं पूर्वोक्तफलाभावमेव विशेषेण कथयति-

यः संगतानि कुरुते मोहाच्छ्राद्धेन मानवः ।
स स्वर्गाच्च्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः ॥ १४०॥

 य इति ॥ यो मनुष्यः संगतानि मित्रभावं शास्त्रानभिज्ञतया श्राद्धेन कुरुते श्राद्धमेव मित्रलाभहेतुत्वान्मित्रं यस्य स श्राद्धमित्रो द्विजापसदः स स्वर्गलोकाच्च्यवते । तं न प्राप्नोतीत्यर्थः । श्राद्धस्यापि स्वर्गफलत्वमाह याज्ञवल्क्यः -'आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः' ॥ १४॥

संभोजनी साभिहिता पैशाची दक्षिणा द्विजैः ।
इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि ॥ १४१॥

 संभोजनीति ॥ सा दक्षिणा दानक्रिया संभोजनी सह भुज्यते यया सा संभोजनी गोष्टी बहुपुरुषभोजनात्मिका पिशाचधर्मत्वात्पशौची मन्वादिभिरुक्ता । सा