पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/११६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


८२ मनुस्मृतिः । [ अध्यायः ३

चतुरो ह्मणस्याद्यान्प्रशस्तान्कवयो विदुः ।
राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ॥ २४ ॥

चतुर इति ॥ ब्राह्मणस्य प्रथमं पठितान्ब्राह्मादींश्चतुरः । क्षत्रियस्य राक्षसमेकमेव । वैश्यशूयोरासुरं । एताञ्छ्रेष्टान् ज्ञातारो जानन्ति । अतएव ब्राह्मणादिष्वासुरादीनां पूर्वविहितानामप्यत्राप्युपादानं जघन्यत्वज्ञापनार्थं । तेन प्रशस्तविवाहासंभवे जघन्यस्यापि परिग्रह इति दर्शितम् । एवमुत्तरत्रापि विगर्हितपरित्यागो बोद्धव्यः ॥ २४ ॥

पञ्चानां तु त्रयो धा द्वावधम्यौँ स्मृताविह।
पैशाचश्वासुरश्चैव न कर्तव्यौ कदाचन ॥२५॥

पञ्चानामिति ॥ इह पैशाचप्रतिपेधादुपरितनानां पञ्चानां प्राजापत्यादीनां ग्रहणं, तेषु मध्ये प्राजापत्यगान्धर्वराक्षसास्त्रयो धर्मादनपेतास्तत्र प्राजापत्यः क्षत्रियादीना मप्राप्तो विधीयते । ब्राह्मणस्य विहितत्वादनूद्यते । गान्धर्वस्य च चतुर्णामेव प्राप्तत्वादनुवादः। राक्षसोऽपि वैश्यशूद्रयोर्विधीयते। ब्राह्मणस्यक्षत्रियवृत्त्यवस्थितस्याप्यासुरपैशाचौ न कर्तव्यौ । कदाचनेत्यविशेषाञ्चतुर्णामेव निषिध्यते । अत्र यं वर्ण प्रति यस्य विवाहस्य विधिनिषेधौ तस्य तंप्रति विकल्पः स च विहितासंभवे बोद्धव्यः ॥ २५॥

पृथक्पृथग्वा मिस्रौ वा विवाहौ पूर्वचोदितौ ।
गान्धर्वौ राक्षसश्चैव धम्यौं क्षत्रस्य तौ स्मृतौ ॥ २६ ॥

पृथगिति ॥ पृथक्पृथगिति प्राप्तत्वादनूद्यते । मिश्राविति विधीयते । पृथक्पृथग्विमिश्रौ वा पूर्वविहितौ गान्धर्वराक्षसौ क्षत्रस्य धन्यौँ मन्वादिभिः स्मृतौ । यदा स्त्रीपुंसयोरन्योन्यानुरागपूर्वकसंवादेन परिणेता युद्धादिना विजित्य तामुद्वहेत्तदा गान्धर्वराक्षसौ मिश्रौ भवतः ॥ २६ ॥

आच्छाद्य चार्चयित्वा च श्रुतिशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥२७॥

आच्छाद्येति ॥ आच्छादनमानस्यैवौचित्यप्राप्तत्वात्सविशेषवाससा कन्यावरावाच्छाद्यालंकारादिना च पूजयित्वा विद्याचारवन्तमप्रार्थकवरमानीय तस्मै कन्यादानं ब्राह्मो विवाहो मन्वादिभिरुक्तः ॥ २७ ॥

यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते ।
अलंकृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ २८॥

यज्ञ इति ॥ ज्योतिष्टोमादियज्ञे प्रारब्धे यथाविधि ऋत्विजे कर्मकर्ने अलंकृत्य कन्यादानं दैवं विवाहं मुनयो ब्रुवते ॥ २८ ॥