॥ अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ८३
एकं गोमिथुनं द्वे वा वरादादाय धर्मतः । |
एकमिति ॥ स्त्रीगवी पुंगौश्व गोमिथुनं । तदेकं द्वे वा वराद्धर्मतो धर्मार्थ यागादिसिद्धिये कन्यायै वा दातुं नतु शुल्कबुद्ध्या गृहीत्वा यद्यथाशास्त्रं कन्यादानं स आर्षो विवाहो विधीयते ॥ २९ ॥
सहोभौ चरतां धर्ममिति वाचानुभाष्य च । |
सहेति ॥ सह युवां धर्म कुरुतमिति सुताप्रदानकाले वचसा पूर्व नियम्यार्चयिन्वा यत्कन्यादानं स प्राजापत्यो विवाहः स्मृतः ॥ ३० ॥
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । |
ज्ञातिभ्य इति ॥ कन्याया ज्ञातिभ्यः पित्रादिभ्यः कन्यायै यद्यथाशक्ति धनं दत्त्वा कन्याया आप्रदानमादानं स्वीकारः स्वाच्छन्द्यात्स्वेच्छया न वार्प इव शास्त्रीयधनजातिपरिमाणनियमेन स आसुरो विवाह उच्यते ॥ ३१ ॥
इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च । |
इच्छयेति ॥ कन्याया वरस्य चान्योन्यानुरागेण यः परस्परसंयोग आलिङ्गनादिरूपः स गान्धर्वो ज्ञातव्यः। संभवत्यस्मादिति संभवः । यस्मात्कन्यावरयोरभिलापासौ संभवति । अतएव मैथुन्यो मैथुनाय हितः । सर्वविवाहानामेव मैथुज्यत्वेन यदस्य मैथुन्यत्वाभिधानं तत्सत्यपि मैथुने न विरोध इति प्रदर्शनार्थम् ॥ ३२ ॥
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । |
हत्वेति ।। प्रसह्य बलात्कारेण कन्याया हरणं इत्येव लक्षणम् । यदा तु हर्तुः शक्त्यतिशयं ज्ञात्वा पित्रादिभिरुपेक्ष्यते तदा नावश्यकं हननादि । यादि कन्यापक्षः प्रतिपक्षतां याति तदा हननादिकमपि कर्तव्यमित्यर्थप्राप्तमनूद्यते । कन्यापक्षाविनाश्य तेषामङ्गच्छेदं कृत्वा प्राकारादीभित्त्वा 'हा पितभीतरनाथाहं हये' इति वदन्तीमश्रूणि मुञ्चन्तीं यत्कन्यां गृहादपहरति । अनेन कन्यायामनिन्छोक्ता गान्धर्वाद्विवेकार्थम् ॥ ३३ ॥
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति । |
सुप्तामिति ॥ निद्राभिभूतां मद्यमदविह्वलां शीलसंरक्षणेन रहितां विजनदेशे