पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/११५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ८१

दैवेति ॥ यदि कथंचित्सवर्णानुक्रमेणाक्रमेण वा शूद्रापि परिणीयते तदा भार्यात्वेन प्रसक्तानि तत्कर्तृकानि दैवेत्यनेन निषिध्यन्ते । दैवं होमादि, पित्र्यं श्राद्धादि, आतिथेयमतिथिभोजनादि, एतानि यस्य शूद्रासंपाद्यानि तद्धव्यं कव्यं पितृदेवा नाश्नन्ति । नच तेनातिथ्येन स गृही स्वर्ग याति । 'यस्तु तत्कारयेन्मोहात्सजात्या स्थितयान्यया' इति सवर्णायां सन्निहितायां निषेधं वक्ष्यति । अयं त्वसन्निहितायामपीत्यपुनरुक्तिः ॥ १८॥

वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तयां चैव प्रसूतस्य निष्कृतिन विधीयते ॥ १९ ॥

वृषलीति ॥ वृषलीफनोऽधररसः स पीतो येन स वृषलीफेनपीतः । 'वाहिताग्यादिषु' इत्यनेन समासः । अनेन शूद्राया अधररसपानं निषिध्यते । निःश्वासोपहतस्य चेति तया सहैकशय्यादौ शयननिषेधः । तस्यां जातापत्यस्य शुद्धिर्नोपदिश्यत इत्युतुकालगमननिषेधानुवादः ॥ १९ ॥

चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् ।
अष्टाविमान्समासेन स्त्रीविवाहान्निबोधत ॥२०॥

चतुर्णामिति ॥ चतुर्णामपि वर्णानां ब्राह्मणादीनां परलोके इहलोके च कांश्विद्धितान्कांश्चिदहितानिमानभिधास्यमानानष्टौ संक्षेपेण भार्याप्राप्तिहेतून्विवाहान् शृणुत ॥ २०॥

ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥२१॥

ब्राह्म इति ॥ त एते नामतो निर्दिश्यन्ते । ब्राह्मराक्षसादिसंज्ञा चेयं शास्त्रसंव्यवहारार्था स्तुतिनिन्दाप्रदर्शनार्थी च । ब्रह्मण इवायं ब्राह्मः। रक्षस इवायं राक्षसः । न तु ब्रह्मादिदेवतात्वं विवाहानां संभवति । पैशाचस्याधमत्वाभिधानं निन्दातिशयार्थम् ॥ २१ ॥

यो यस्य धो वर्णस्य गुणदोषौ च यस्य यौ।
तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ २२ ॥

य इति ॥ धर्मादनपेतो धर्म्यः । यो विवाहो धर्यो यस्य विवाहस्य यौ गुणदोषौ इष्टानिष्टफले तत्तद्विवाहोत्पन्नापत्येषु ये गुणागुणास्तत्सर्वं युप्माकं प्रकर्षणाभिधास्यामि । वक्ष्यमाणानुकीर्तनमिदं शिष्याणां सुखग्रहणार्थम् ॥ २२ ॥

षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् ।
विट्शूद्रयोस्तु तानेव विद्याद्धानराक्षसान् ॥ २३ ॥

षडिति ॥ ब्राह्मणस्य ब्राह्मादिक्रमेण षट्। क्षत्रियस्यावरानुपरितनानासुरादीश्चतुरः । विशुद्धयोस्तु तानेव राक्षसवर्जितानासुरगान्धर्वपैशाचान् धर्म्यान्धदनपेताक्षानीयात् ॥ २३॥