पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८० मनुस्मृतिः। [अध्यायः ३

न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः।
कसिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥ १४ ॥

न ब्राह्मणेति ॥ ब्राह्मणक्षत्रिययोगार्हस्थ्यमिच्छतोः सर्वथा सवर्णालाभे कस्मिंश्चिदपि वृत्तान्ते इतिहासाख्यानेऽपि शूद्रा भार्या नाभिधीयते । पूर्वसवर्णानुक्रमेणानुलोम्येन विवाहाद्यनुज्ञानादयं निषेधः प्रातिलोम्येन विवाहविषयो बोद्धव्यः । ब्राह्मणक्षत्रियग्रहणं चेदं दोपभूयस्त्वार्थम् । अनन्तरं द्विजातय इति बहुवचनात्, वैश्यगोचरनिषेधस्यापि वक्ष्यमाणत्वात् ॥ १४ ॥

हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः।
कुलान्येव नयन्त्याशु ससंतानानि शूद्रताम् ॥ १५॥

हीनजातिस्त्रियमिति । सवर्णामपि परिणीय हीनजातिं शूद्रां शास्त्राविवेकात्परिणयन्तो ब्रह्मक्षत्रियवैश्यास्तत्रोत्पन्नपुत्रपौत्रादिक्रमेण कुलान्येव ससंततिकानि शुद्धता गमयन्ति । अत्र द्विजातय इति बहुवचननिर्देशान्निन्दया वैश्यस्यापि निषेधः कल्प्यते । ब्राह्मणक्षत्रिययोस्तु पूर्वत्रैव निषेधकल्पनात्तन्निन्दामात्रार्थतैव ॥ १५॥

शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च ।
शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः॥ १६ ॥

शूद्रावेदीति ॥ शूद्रां विन्दति परिणयतीति शूद्रावेदी सः पतति पतित इव भवति । इदमत्रेर्मतं उतथ्यतनयस्य गौतमस्य च । अत्र्यादिग्रहणमादरार्थम् । एतब्राह्मणविषयम् । 'शूद्रायां सुतोत्पत्त्या पतति' इति शौनकस्य मतमेतत्क्षत्रियविषयम् । 'शूद्रासुतोत्पत्त्या पतति' इति भृगोर्मतं एतद्वैश्यविषयम् । एतस्य महर्षिमतत्रयस्य व्यवस्थासंभवे विसदृशपतनविकल्पायोगात् । मेधातिथिगोविन्दराजयोस्तु मतं शूद्रावेदी पततीति पूर्वोक्तशूद्राविवाहनिषेधविशेषः सुतोत्पत्त्या पततीति दैवाजातशूद्राविवाहे ऋतौ नोपेयादिति विधानार्थम् । ऋतुकालगमने सुतोत्पत्तेः। तदपत्यतयेति तु तान्येव शूद्रोत्पन्नान्यपत्यानि यस्य स तदपत्यस्तस्य भावस्तदपत्यता तया पतति । एतेनेदमुक्तं ऋतावुपयनितरासु जातापत्य उपेयात् ॥ १६ ॥

शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥ १७ ॥

शूद्रामिति ॥ सवर्णामपरिणीय दैवात्स्नेहाद्वा शूद्वापरिणेतुर्ब्राह्मणस्य शयननिषेधोऽयं निन्दया निषेधस्मृत्यनुमानाच्छूद्रां गत्वा ब्राह्मणो नरकं गच्छति । जनयित्वा सुतं तस्यामित्युतुकालगमननिषेधपरम् । ब्राह्मण्यादेव हीयत इति दोषभूयस्त्वार्थः ॥ १७ ॥

दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति ॥१८॥