पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/११३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता । ७९

  अत्र विधिनिषेधयोरभिधानमनिषिद्धविहितकन्यापरिणयनमभ्युदयार्थमिनि  दर्शयितुमाह-

यस्यास्तु न भवेद्भाता न विज्ञायेत वा पिता ।।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ ११ ॥

यस्या इति ॥ यस्याः पुनर्भ्राता नास्ति तां पुत्रिकाशङ्कया नोद्वहेत् । 'यदपत्यं भवेदस्यास्तन्मम स्यात्स्वधाकरम्' इत्यभिसंधानमात्रादपि पुत्रिका भवति। ‘अभिसंधिमात्रात्पुत्रिकेत्येके' इति गोतमस्मरणात् । यस्या वा विशेषेण पिता न ज्ञायतेऽनेनेयमुत्पन्नेति तामपि नोद्वहेत् । अत्र च पुत्रिकाधर्मशङ्कयेति न योजनीयमिनि केचित् । गोविन्दराजस्त्वाह- ‘भिन्नपितृकयोरप्येकमातृकयोर्भातृत्वप्रसिद्धेः सभ्रातृकत्वेऽपि यस्या विशेषेण पिता न ज्ञायते तामपि पुत्रिकाशङ्कयैव नोद्वहेत्’इति । मेधातिथिस्त्वेकमेवेमं पक्षमाह । यस्यास्तु भ्राता नास्ति तां पुत्रिकाशङ्कया नोपयच्छेत् । पिता चेन्न ज्ञायते प्रोषितो मृतो वा । वाशब्दश्चेदर्थे। पितरि तु विद्यमाने तदीयवाक्यादेव पुत्रिकात्वाभावमवगम्याभ्रातृकापि वोढव्येति । अस्माकं तु विकल्पस्वरसादिदं प्रतिभाति । यस्या विशेषेण पिता न ज्ञायते तामपि जारजत्वेनाधर्मशङ्कया नोद्वहेत् । अत्रच पक्षे पुत्रिकाधर्मशङ्कयेति पुत्रिका चाधर्मश्च तयोः शङ्का पुत्रिकाधर्मशङ्का तयेति यथासंख्यं योजनीयम् । अत्रच प्रकरणे सगोत्रपरिणयने ‘सगोत्रां चेदमत्योपयच्छेन्मातृवदेनां बिभृयात्' इति परित्यागश्रवणात् ‘परिणीय सगोत्रां च' इति प्रायश्चित्तश्रवणाच्च। तत्र तत्समभिव्याहृते च मातृसपिण्डापरिणयनादौ भार्यात्वमेव न भवति।भार्याशब्दस्याहवनीयादिवत्संस्कारवचनत्वात् । येषां पुनर्दृष्टगुणदोषमूलके विधिनिषेधाभिधाने यथा हीनक्रियमिति, न तदतिक्रमे भार्यात्वाभावः । अतएव मनुना ‘महान्त्यपि समृद्धानि इत्यादिपृथक्करणं कृतम् । एतन्मध्यपतितश्च ‘नक्षवृक्षनदीनाम्नीम्' इत्यादिप्रतिषेधोऽपि न भार्यात्वाभावफलकः, किंत्वत्र शास्त्रातिक्रमात्प्रायश्चित्तमात्रम् ॥ ११ ॥

सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।।
कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशो वराः ॥ १२ ॥

सवणग्र इति ॥ ब्राह्मणक्षत्रियवैश्यानां प्रथमे विवाहे कर्तव्ये सवर्णा श्रेष्ठा भवति । कामतः पुनर्विवाहे प्रवृत्तीनामेता वक्ष्यमाणा आनुलोम्येन श्रेष्ठा भवेयुः ॥ १२ ॥

शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।।
ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥ १३ ॥

ऋत्रैवेति ॥ शूद्रस्य शूद्वैव भार्या भवति न तूत्कृष्टा वैश्यादयस्तिस्रः । वैश्यस्य चे शूद्रा वैश्या च भार्या मन्वादिभिः स्मृता । क्षत्रियस्य वैश्याशूद्रे क्षत्रिया च । ब्राह्मणस्य क्षत्रिया वैश्या शूद्रा ब्राह्मणी च । वसिष्ठोऽपि “शूद्रामप्येके मत्रवर्जम् इति द्विजातीनां मत्रवर्जितं शूद्राविवाहमाह ॥ १३॥