मनुस्मृतिः। [अध्यायः २
भीक्ष्णं श्रद्धातव्यं श्रद्दधानेन नित्यं । न श्रद्धिनं प्रति जन्ममृत्युविशेषता। मेधातिथिस्तु श्रुतिस्मृत्यपेक्षया परो धर्मो लौकिकः। धर्मशब्दो व्यवस्थायामपि युज्यते । यदि चाण्डालोऽप्यत्र प्रदेशे मा चिरं स्था मा चास्मिन्नम्भसि नाया 'इति वदति तमपि धर्ममनुतिष्टेत्' । 'प्रागल्भ्याल्लौकिकं वस्तु परं धर्ममिति त्रुवन् । नित्रं तथापि सर्वत्र श्लाघ्यो मेधातिथिः सताम् ॥' स्त्रीरनं आन्मापेक्षया निकृष्टकुलादपि परिणेतुं स्वीकुर्यात् ॥ २३८॥
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । |
विषादिति ॥ विषं यद्यमृतसंयुक्तं भवति तदा विपमपसार्य तस्मादमृतं ग्राह्यम् । बालादपि हितवचनं ग्राह्य, शत्रुतोऽपि सज्जनवृत्त, अमेध्यादपि सुवर्णादिकं ग्रहीतव्यम् ॥ २३९ ॥
स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् । |
स्त्रिय इति ॥ अत्र स्यादीनामुक्तानामपि दृष्टान्तत्वेनोपादानं। यथा स्यादयो निकृष्टकुलादिभ्यो गृह्यन्ते तथा अन्यान्यपि हितानि चित्रलिखनादीनि सर्वतः प्रतिग्रहीतव्यानि ॥ २४० ॥
अब्राह्मणादध्ययनमापत्काले विधीयते । |
अब्राह्मणादिति ॥ ब्राह्मणादन्यो यो द्विजः क्षत्रियस्तदभावे वैश्यो वा तस्मादध्ययनमापत्काले ब्राह्मणाध्यापकासंभवे ब्रह्मचारिणो विधीयते । अनुव्रज्यादिरूपा गुरोः शुश्रूषा यावदध्ययनं तावत्कार्या । गुरुपादप्रक्षालनोच्छिष्टप्राशनादिरूपा शुश्रूषा प्रशस्ता सा न कार्या । तदर्थमनुव्रज्या चेति विशेषितम् । गुरुत्वमपि यावदध्ययनमेव क्षत्रियस्याह व्यासः-'मन्त्रदः क्षत्रियो विप्रैः शुश्रूषानुगमादिना। प्राप्तविद्यो ब्राह्मणस्तु पुनस्तस्य गुरुः स्मृतः' ॥ २४१ ॥ ब्रह्मचारित्वे नैष्टिकस्याप्यब्राह्मणादध्ययनं प्रसक्तं प्रतिषेधयति-
नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् । |
नाब्राह्मण इति ॥ आत्यन्तिकं वासं यावज्जीविकं ब्रह्मचर्य क्षत्रियादिके गुरौ ब्राह्मणे सागवेदानध्येतरि । अनुत्तमां गतिं मोक्षलक्षणामिच्छन् शिष्यो नावतिष्टेत ॥ २४२॥
यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले । |