अध्यायः २ मन्वर्थमुक्तावलीसंवलिता। ७५
यदीति ॥ यदि तु गुरोः कुले नैष्ठिकब्रह्मचर्यात्मकमात्यन्तिकं वासमिच्छेत्तदा यावजीवनमुद्युक्तो गुरुं शुश्रूषयेत् ॥ २४३॥ अस्य फलमाह-
आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् । |
आ समाप्तेरिति ॥ समाप्तिः शरीरस्य जीवनत्यागस्तत्पर्यन्तं यो गुरुं परिचरति स तत्त्वतो ब्रह्मणः सद्म रूपमविनाशि प्राप्नोति । ब्रह्मणि लीयत इत्यर्थः ॥२४४॥
न पूर्वं गुरवे किंचिदुपकुर्वीत धर्मवित् । |
न पूर्वमिति ॥ उपकुर्वाणस्यायं विधिः नैष्ठिकस्य स्नानासंभवात् । गुरुदक्षिणादानं धर्मज्ञो ब्रह्मचारी स्नानात्पूर्व किंचिदोवस्त्रादि धनं गुरवे नावश्यं दद्यात् । यदि तु यदृच्छातो लभते तदा गुरवे दद्यादेव । अतएव स्नानात्पूर्वं गुरवे दानमाहापस्तम्बः-'यदन्यानि द्रव्याणि यथालाभमुपहरति दक्षिणा एव ताः स एव ब्रह्मचारिणो यज्ञो नित्यव्रतम्' इति । स्नास्यन्पुनरुणा दत्ताज्ञो यथाशक्ति धनिनं याचित्वापि प्रतिग्रहादिनापि गुरवेऽर्थमाहृत्यावश्यं दद्यात् ॥ २४५ ॥ किं तत्तदाह-
क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम् । |
क्षेत्रमिति ॥ 'शक्त्या गुर्वर्थमाहरेत्' इत्युक्तत्वात्क्षेत्रहिरण्यादिकं यथासामर्थ्य विकल्पितं समुदितं वा गुरवे दत्वा तत्प्रीतिमर्जयेत् । विकल्पपक्षे चान्ततोऽन्यासंभवे छत्रोपानहमपि दद्यात् द्वन्द्वनिर्देशात् । समुदितदानं प्रदर्शनार्थं चैतत् । संभवेऽन्यदपि दद्यात् । अतएव लघुहारीतः-'एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तद्रव्यं यद्दत्वा चानृणी भवेत् ॥' असंभवे शाकमपि दद्यात् ॥ २४६ ॥
आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते । |
आचार्य इति ॥ नैष्ठिकस्यायमुपदेशः। आचार्ये मृते तत्सुते विद्यादिगुणयुक्ते, तदभावे गुरुपत्यां, तदभावे गुरोः सपिण्डे पितृव्यादौ गुरुवच्छुश्रूषामनुतिष्ठेत् ॥
एतेष्वविद्यमानेषु स्नानासनविहारवान् । |
एतेष्विति ॥ एतेषु त्रिप्वविद्यमानेषु सततमाचार्यस्यैवाग्नेः समीपे नानासनविहारैः सायंप्रातसदौ समिद्धोमादिना चाग्नेः शुश्रूषां कुर्वन्चात्मनो देहमात्मदेहाबच्छिन्नं जीवं ब्रह्मप्राप्तियोग्यं साधयेत् ॥ २४८॥