अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ७३ दम् । त्रींल्लोकान्विजयेदिति त्रिवाधिपत्यं प्राप्नोति । तथा स्ववपुषा प्रकाशमानः सूर्यादिदेववद्दिवि हृष्टो भवति ॥ २३२ ॥
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । |
इममिति ॥ इमं भूर्लोकं मातृभक्त्या । पितृभक्त्या मध्यममन्तरिक्षं । आचार्यभक्त्या तु हिरण्यगर्भलोकमेव प्राप्नोति ॥ २३३॥
सर्वे तस्यादृता धर्मा यस्यैते तत्र आदृताः । |
सर्व इति ॥ यस्यैते त्यो मातृपित्राचार्या आदृताः सत्कृतास्तस्य सर्व धर्माः फलदा भवन्ति । यस्यैते त्रयोऽनादृतास्तस्य सर्वाणि श्रौतस्मातकर्माणि निष्फलानि भवन्ति ॥ २३४ ॥
यावत्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् । |
यावदिति ॥ ते त्रयो यावज्जीवन्ति तावदन्यं धर्म स्वातन्त्र्येण नानुतिष्ठेत् । तदनुज्ञया तु धर्मानुष्टानं प्राग्विहितमेव । किंतु तेष्वेव प्रत्यहं प्रियहितपरः शुश्रूषां तदर्थे प्रीतिसाधनम् । प्रियं भेषजपानादिवत् । आपत्यामिष्टसाधनं हितम्॥२३५॥
तेषामनुपरोधेन पारत्र्यं यद्यदाचरेत् । |
तेषामिति ॥ तेषां शुश्रूषाया अविरोधेन तदनुज्ञातो यद्यन्मनोवचनकर्मभिः पर- लोकफलं कर्मानुष्ठितं तन्मयैतदनुष्ठितमिति पश्चात्तेभ्यो निवेदयेत् ॥ २३६ ॥
त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते । |
त्रिप्विति ॥ इतिशब्दः कात्स्न्ये । हिशब्दो हेतौ । यस्मादेतेषु त्रिषु शुश्रूषितेषु पुरुषस्य सर्वं श्रौतस्मात कर्तव्यं संपूर्णमनुष्ठितं भवति । तत्फलावाप्तेः । तस्मादेव श्रेष्ठो धर्मःसाक्षात्सर्वपुरुषार्थसाधनः । अस्याग्निहोत्रादिप्रतिनियतस्वर्गादिहेतुरूपधर्मो जघन्यधर्म इति शुश्रूषास्तुतिः ॥ २३७ ॥
श्रद्दधानः शुभां विद्यामाददीतावरादपि । |
श्रद्दधान इति ॥ श्रद्धायुक्तः शुभां दृष्टशक्तिं गारुडादिविद्यामवराच्छूद्रादपि गृह्णीयात्। अन्त्यश्चाण्डालस्तस्मादपि जातिस्परादेर्विहितयोगप्रकर्षात् दुष्कृतशेषोपभोगार्थमवाप्तचाण्डालजन्मतः परं धर्मं मोक्षोपायमात्मज्ञानमाददीत । तथा अज्ञानमेवोपक्रम्य मोक्षधर्म प्राप्यज्ञानं ब्राह्मणात्क्षत्रियाद्वैश्याच्छूद्रादपि नीचाद- मनु० ७