पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- ७२ मनुस्मृतिः । [अध्यायः २

यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ।। २२७ ॥

यमिति ॥ नृणामपत्यानां संभवे गर्भाधाने सति अनन्तरं यं क्लेशं मातापितरौ सहेते तस्य वर्षशतैरप्यनेकैरपि जन्मभिरानृण्यं कर्तुमशक्यम् । मातुस्तावत्कुक्षौ धारणदुःखं, प्रसववेदनातिशयो, जातस्य रक्षणवर्धनकष्टं च पितुरधिकान्येव । रक्षासंवर्धनदुःखं, उपनयनात्प्रभृति वेदतदङ्गाध्यापनादिक्लेशातिशय इति सर्वसिद्धं तस्मात् ॥ २२७॥

तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ।
तेष्वेव त्रिषु तुष्टेषु तपः सर्व समाप्यते ॥ २२८ ॥

तयोर्नित्यमिति ॥ तयोर्मातापित्रोः प्रत्यहमाचार्यस्य च सर्वदा प्रीतिमुत्पादयेत् । यस्मात्तेष्वेव त्रिपु प्रीतेषु सर्व तपश्चान्द्रायणादिकं फलद्वारेण सम्यक्प्राप्यते मात्रादिनयतुष्टयैव सर्वस्य तपसः फलं प्राप्यत इत्यादि ॥ २२८ ॥

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैरभ्यननुज्ञातो धर्ममन्यं समाचरेत् ॥ २२९ ॥

तेषामिति ॥ तेषां मातापित्राचार्याणां परिचर्या सर्वं तपोमयं श्रेष्टमित एव सर्वतपःफलप्राप्तेर्यद्यन्यमपि धर्मं कथंचित्करोति तदप्येतत्रयानुमतिव्यतिरेकेण न कुर्यात् ॥ २२९ ॥

त एव हि त्रयो लोकास्त एव त्रय आश्रमाः।
त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः ॥ २३० ॥

त एवेति ॥ यस्मात्त एव मातापित्राचार्यास्त्रयो लोकाः लोकत्रयप्राप्तिहेतुत्वात् । कारणे कार्योपचारः । त एव ब्रह्मचर्यादिभावनय आश्रमाः । गार्हस्थ्याद्याश्रमजयप्रदायकत्वात् । त एव त्रयो वेदाः । वेदत्रयजपफलोपायत्वात् । त एव हि वयोऽग्नयोऽभिहितास्त्रेतासंपाद्ययज्ञादिफलदातृत्वात् ॥ २३० ॥

पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः।
गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ॥ २३१ ॥

पितेति ॥ वैशब्दोऽवधारणे। पितैव गार्हपत्योऽग्निः, माता दक्षिणाग्निः, आचार्य आहवनीयः। सेयमग्नित्रेता श्रेष्ठतरा । स्तुत्यर्थत्वाञ्चास्य न वस्तुविरोधोऽत्र भावनीयः ॥ २३१ ॥

त्रिष्वप्रमाद्यन्नेतेषु त्रील्लोकान्विजयगृही।
दीप्यमानः स्ववपुषा देववदिवि मोदते ॥२३२ ॥

विष्विति ॥ एतेषु त्रिषु प्रमादमकुर्वन्ब्रह्मचारी तावजयत्येव गृहस्थोऽपि त्रींल्लोकान्विजयते । संज्ञापूर्वकस्यात्मनेपदविधेरनित्यत्वान्न 'विपराभ्यां जेः' इत्यात्मनेप-