पृष्ठम्:भोजप्रबन्धः (विद्योतिनीव्याख्योपेतः).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
भोजप्रवन्धः


११-विदुषां सत्कार:-कतिपयकथा

 कियत्यपि कालेऽतिक्रान्ते राजा कदाचित्सन्ध्यामालोक्य ग्राह--

 परिपतति पयोनिधौ पतङ्गः'

ततो बाणः प्राह--

  'सरसिरहामुदरेषु मत्तभृङ्गः ।

ततो महेश्वरकविः--

  'उपवनतरुकोटरे विहङ्गः

ततः कालिदासः प्राह-~

 'युवतिजनेषु शनैःशनै [१] रनङ्गः ॥ १६१ ।।

तुष्टो राजा लक्षं लक्षं ददौ । चतुर्थचरणस्य लक्षद्वयं ददौ ।

कुछ समय व्यतीत हो जाने पर कमी राजा ने संध्याकाल को देखकर कहा-

'गिरता हैं जल निधि में पतंग ( सूर्य )।'
तव बाण ने कहा-'सरसिज-उदरों में मत्तभृग ।' ..
इस पर महेश्वर कवि बोला-'उपवन-तरु-कोटर में विहंग।"
अन्त में कालिदास ने कहा--'तरुणी जन में क्रम-क्रम अनंग।'

 संतुष्ट राजा ने लाख-लाख मुद्राएँ दीं, चौथे चरण पर दो लाख दिये। कदाचिद्राजा बहिस्थानमध्ये मार्ग प्रत्यागच्छन्तं कमपि विप्रं ददर्श । तस्य करे चर्ममयं कमण्डलं वीक्ष्य तं चातिदारिद्रं ज्ञात्वा मुखश्रिया विराजमानं चावलोक्य तुरङ्ग तदनिधायाह-विप्र, चर्मपात्रं किमर्थं पाणौ वहसि इति । स च विप्रो नूनं मुखशोभया मृदूक्त्या च भोज इति विचार्याह--'देव, वदान्यशिरोमणौ भोजे पृथ्वी शासति लोहताम्राभावः समजनि । तेन चर्ममयं पात्रं वहामि, इति । राजा-~ 'भोजे शासति लोहताम्राभावे को हेतुः । तदा विप्रः पठति--

अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम् ।
शत्रूणां शृखलैर्लौहं ताम्रशासनपत्रकैः ॥ १६२॥

ततस्तुष्टो राजा प्रत्यक्षरं लक्षं ददौ ।


  1. मन्मथः । ....