'स्निग्धमुष्णं च भोजनम् ॥ ३२२ ॥
इति । ततो भोजोऽपि कालिदासं लीलामानुषं मत्वा परं संमानितवान् ।
अथ भोजनृपालः प्रतिदिनं संजातबलकान्तिर्ववृधे धाराधीशः कृष्णेतरपक्षे चन्द्र इव । ततः कदाचित्सिंहासनमलंकुर्वाणे श्रीभोजे कालिदास-भवभूति-दण्डि-बाण-मयूर-वररुचि-प्रभृतिकवितिलककुलालंकृतायां सभायां द्वारपाल एत्याह-'देव, कश्चित्कविर्द्वारि तिष्ठति । तेनेयं प्रेषिता गाथासनाथा चीठिका देवसभायां निक्षिप्यताम्' इति तां दर्शयति । राजा गृहीत्वा तां वाचयति-
'काचिद्बाला रमणवसतिं प्रेषयन्ती करण्डं
दासीहस्तात्समयमलिखद्व्यालमस्योपरिस्थम् ।
गौरीकान्तं पवनतनयं चम्पकं चात्र भावं
पृच्छत्यार्यो निपुणतिलको मल्लिनाथः कवीन्द्रः ॥ ३२३ ॥
तच्छ्रुत्वा सर्वापि विद्वत्परिषच्चमत्कृता । ततः कालिदासः प्राह-'राजन्, मल्लिनाथः शीघ्रमाकारयितव्यः' इति । ततो राजादेशाद्द्वारपालेन स प्रवेशितः कवी राजानं 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः । ततो राजा प्राह तं कवीन्द्रम्-'विद्वन्मल्लिनाथकवे, साधु रचिता गाथा ।' तदा कालिदासः प्राह-'किमुच्यते साध्विति । देशान्तरगतकान्तायाश्चारित्र्यवर्णनेन श्लाघनीयोऽसि विशिष्य तत्तद्भावप्रतिभटवर्णनेन ।' तदा भवभूतिः प्राह-विशिष्यत इयं गाथा पङ्क्तिकण्ठोद्यानवैरिणो वातात्मजस्य वर्णनात्' इति । ततः प्रीतेन राज्ञा तस्मै दत्तं सुवर्णानां लक्षं पञ्च गजाश्च दश तुरगाश्च दत्ताः । ततः प्रीतो विद्वान्स्तौति राजानम्-
'देव भोज तव दानजलौघैः सेयमद्य रजनीति विशङ्के ।
अन्यथा तदुदितेषु शिलागोभूरुहेषु कथमीदृशदानम् ॥ ३२४ .
ततो लोकोत्तरं श्लोकं श्रुत्वा राजा पुनरपि तस्मै लक्षत्रयं ददौ । ततो लिखति स्म भाण्डारिको धर्मपत्रे-
'प्रीतः श्रीभोजभूपः सदसि विरहिणो गूढनर्मोक्तिपद्यं
श्रुत्वा हेम्नां च लक्षं दश वरतुरगान्पञ्च नागानयच्छत् ।
पश्चात्तत्रैव सोऽयं वितरणगुणसद्वर्णनात्प्रीतचेता
लक्ष लक्षं च लक्षं पुनरपि च ददौ मल्लिनाथाय तस्मै ॥ ३२५ ॥