पृष्ठम्:भोजप्रबन्धः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 ततः कदाचिद्भोजराजः कालिदासं प्रति प्राह-सुकवे, त्वमस्माकं चरमग्रन्थं पठ।' ततः क्रुद्धो राजानं विनिन्द्य कालिदासः क्षणेन तं देशं त्यक्त्वा विलासवत्या सहेकशिलानगरं प्राप । ततः कालिदासवियोगेन शोकाकुलस्तं कालिदासं मृगयितुं राजा कापालिकावेषं धृत्वा क्रमेणैकशिलानगरं प्राप । ततः कालिदासो योगिनं दृष्ट्वा तं सामपूर्वं पप्रच्छ- 'योगिन् , कुत्र तेऽस्ति स्थितिः' इति । योगी वदति-सुकवे, अस्माकं धारानगरे वसतिः' इति । ततः कविराह-तत्र भोजः कुशली किम् ?' ततो योगी प्राह-'किं मया वक्तव्यम्' इति । ततः कविराह-तत्रातिशयवार्तास्ति चेत्सत्यं कथयं' इति । तदा योगी प्राह-भोजो दिवं गतः' इति । ततः कविर्भूमौ निपत्य प्रलपति-'देव, त्वां विनास्माकं क्षणमपि भूमौ न स्थितिः । अतस्त्वत्समीपमहमागच्छामि' इति कालिदासो बहुशो विलप्य चरमश्लोकं कृतवान्-

  'अद्य धारा निराधारा निरालम्बा सरस्वती ।
  पण्डिताः खण्डिताः सर्वे भोजराजे दिवं गते' ॥ ३२६ ॥

 एवं यदा कविनाचरमश्लोक उक्तस्तदैव स योगी भूतले विसंज्ञः पपात । ततः कालिदासस्तथाविधं तमवलोक्य 'अयं भोज एव' इति निश्चित्य "अहह महाराज, तत्रभवताहं वञ्चितोऽस्मि'। इत्यभिधाय झटिति तं लोकं प्रकारान्तरेण पपाठ-

  'अद्य धारा सदाधारा सदालम्बा सरस्वती ।
  पण्डिता मण्डिताः सर्वे भोजराजे भुवं गते' ॥ ३२७ ॥

 ततो भोजस्तमालिङ्गय प्रणम्य धारानगरं प्रति ययौ ।

  शैले शैलविनिश्चलं च हृदयं मुञ्जस्य तस्मिन्क्षणे
   भोजे जीवति हर्षसंचयसुधाधाराम्बुधौ मज्जति ।
  स्त्रीभिः शीलवतीभिरेव सहसा कर्तुं तपस्तत्परे
   मुञ्जे मुञ्चति राज्यभारमभजत्त्यागैश्च भोगैर्नृपः ॥ ३२८ ॥

श्रीमन्महाराजाधिराजस्य धारानगराधीशस्य भोजराजस्य
प्रबन्धः समाप्तिमफाणीत् ।