पृष्ठम्:भोजप्रबन्धः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भवतोर्विदितः । ततस्तावूचतुः-'देव, कपालशोधनं कृतं भोजेन, तदा प्रविष्टः पाठीनः । तन्मूलोऽयं रोगः' इति । तदेन्द्रः स्मयमानमुखः प्राह-'तदिदानीमेव युवाभ्यां गन्तव्यम् । न चेदितःपरं भूलोके भिषक्शास्त्रस्यासिद्धिर्भवेत् । स खलु सरस्वतीविलासस्य निकेतनं शास्त्राणामुद्धर्ता च' इति । ततः सुरेन्द्रादेशेन तावुभावपि धृतद्विजन्मवेषौ धारानगरं प्राप्य द्वारस्थं प्राहतुः-'द्वारस्थ, आवां भिषजौ काशीदेशादागतौ । श्रीभोजाय विज्ञापय । तेनानृतमित्यङ्गीकृतं वैद्यशास्त्रमिति श्रुत्वा तत्प्रतिष्ठापनाय तद्रोगनिवारणाय च' इति । ततो द्वारस्थः प्राह-'भो विप्रौ, न कोऽपि भिषक्प्रवरः प्रवेष्टव्य इति राज्ञोक्तम् । राजा तु केवलमस्वस्थः । नायमवसरो विज्ञापनस्य' इति। तस्मिन्क्षणे कार्यवशाद्बहिनिर्गतो बुद्धिसागरस्तौ दृष्ट्वा कौ भवन्तौ' इत्यपृच्छत् । ततस्तौ यथागतमूचतुः । ततो बुद्धिसागरेण तौ राज्ञः समीपं नीतौ । ततो राजा ताववलोक्य मुखश्रियाऽमानुषाविति बुद्ध्वा 'आभ्यां शक्यतेऽयं रोगो निवारयितुम्' इति निश्चित्य तौ बहु मानितवान् । ततस्तावूचतुः-राजन् , न भेतव्यम् । रोगो निर्गतः । किं तु कुत्रचिदेकान्ते त्वया भवितव्यम्' इति । ततो राज्ञापि तथा कृतम् । ततस्तावपि राजानं मोहचूर्णेन मोहयित्वा शिरः- कपालमादाय तत्करोटिकापुटे स्थितं शफरकुलं गृहीत्वा कस्मिंश्चिद्भाजने निक्षिप्य संधानकरण्या कपालं यथावदारचय्य संजीविन्या च तं जीवयित्वा तस्मै तद्दर्शयताम् । तदा तद्दृष्ट्वा राजा विस्मितः 'किमेतत्' इति तौ पृष्टवान् । तदा तावूचतुः- राजन् त्वया बाल्यादारभ्य परिचितकपालशोधनतः संप्राप्तमिदम्' इति । ततो राजा तावश्विनौ मत्वा तच्छोधनार्थमपृच्छत्-'किमस्माकं पथ्यम्' इति । ततस्तावूचतुः-

  "अशीतेनाम्भसा स्नानं पयःपानं वराः स्त्रियः ।
  एतद्वो मानुषाः पथ्यम्-

 इति । तत्रान्तरे राजामध्ये 'मानुषाः' इति संबोधनं श्रुत्वा 'वयं चेन्मानुषाः, कौ युवाम्' इति तयोर्हस्तौ झटिति स्वहस्ताभ्यामग्रहीत् । ततस्तत्क्षण एव तावन्तर्धत्तां ब्रुवन्तावेव 'कालिदासेन पूरणीयं तुरीयचरणम्' इति । ततो राजा विस्मितः सर्वानाहूय तद्वृत्तमब्रवीत् । तच्छ्रत्वा सर्वेऽपि चमत्कृता विस्मिताश्च बभूवुः । ततः कालिदासेन तुरीयचरणं पूरितम्-