पृष्ठम्:भोजप्रबन्धः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 ततः कालिदासः प्राह-

"युवतिजनकदम्बे नाथमुक्तौष्ठबिम्बे चरमगिरिनितम्बे चन्द्रबिम्बं ललम्बे'॥

ततो राजा सर्वानपि संमानितवान्। तत्र कालिदासं विशेषतः पूजितवान् ।

 अथ कदाचिद्भोजो नगराद्बहिर्निर्गतो नूतनेन तटाकाम्भसा बाल्यसाधितकपालशोधनादि चकार । तन्मूलेन कश्चन शफरशावः कपालं प्रविष्टो विकटकरोटिकानिकटवटितो विनिर्गतः । ततो राजा स्वपुरीमवाप । तदारभ्य राज्ञः कपाले वेदना जाता । ततस्तत्रत्यभिषग्वरैः सम्यक्चिकित्सितापिन शान्ता । एवमहर्निशं नितरामस्वस्थे राज्ञ्यमानुषविदितेन महारोगेण ।

  क्षामं क्षाममभूद्वपुर्गतसुखं हेमन्तकालेऽब्जव-
   द्वक्त्रं निर्गतकान्ति राहुवदनाक्रान्ताब्जबिम्बोपमम् ।
  चेतः कार्यपदेषु तस्य विमुखं क्लीबस्य नारीष्विव
   व्याधिः पूर्णतरो बभूव विपिने शुष्के शिखावानिव ॥ ३२१ ॥

 एवमतीते संवत्सरेऽपि काले न केनापि निवारितस्तद्गदः। ततः श्रीभोजो नानाविधसमानौषधग्रसनरोगदुःखितमनाः समीपस्थं शोकसागरनिमग्नं बुद्धिसागरं कथमपि संयुताक्षरामुवाच वाचम्-'बुद्धिसागर, इतः परमस्मद्विषये न कोऽपि भिषग्वरो वसतिमातनोतु । वाग्भटादिभेषजकोशान्निखिलान्स्रोतसि निरस्यागच्छ । मम देवसमागमसमयः समागतः, इति । तच्छ्रुत्वा सर्वेऽपि पौरजनाः कवयश्चावरोधसमाजश्च विगलदस्रासारनयना बभूवुः ।

 ततः कदाचिद्देवसभायां पुरन्दरः सकलमुनिवृन्दमध्यस्थं वीणामुनिमाह-'मुने, इदानीं भूलोके का नाम वार्ता' इति । ततो नारदः प्राह- सुरनाथ, न किमप्याश्चर्यम् । किंतु धारानगरवासी श्रीभोजभूपालो रोगपीडितो नितरामस्वस्थो वर्तते । स तस्य रोगः केनापि न निवारितः। तदनेन भोजनृपालेन भिषग्वरा अपि स्वदेशानिष्कासिताः । वैद्यशास्त्रमप्यनृतमिति निरस्तम्' इति । एतदाकर्ण्य पुरुहूतः समीपस्थौ नासत्याविदमाह--'भोः स्वर्वैद्यौ, कथमनृतं धन्वन्तरीयं शास्त्रम् । तदा तावाहतुः-'अमरेश देव, न व्यलीकमिदं शास्त्रम् । किंत्वमरविदितेन न रोगेण बाध्यतेऽसौ भोजः' इति । इन्द्रः कोऽसाववार्यरोगः किं(१) तस्य रोगः।