पृष्ठम्:भोजप्रबन्धः.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वक्तव्यम् ।' भवभूतिराह-'देव, किमिति वोरयसि ।' राजा-'सर्वप्रकारेण कविरसि ।' ततो बाणः प्राह-'राजन् , भवभूतिः कविश्चेत्का लिदासः किं वक्तव्यः । राजा-'बाणकवे, कालिदासः कविर्न । किन्तु पार्वत्याः कश्चिदवनौ पुरुषावतार एव ।' ततो भवभूतिराह-'देव, किमत्र प्राशस्त्यं भाति ।' राजा प्राह-'भवभूते, किमु वक्तव्यं प्राशस्त्यं कालिदासश्लोके । यतः 'कैतकशिखालीलायितं सुस्मितम्' इति पठितम् ।' ततो भवभूतिराह–'देव, पक्षपातेन वदसि' इति । ततः कालिदासः प्राह-'देव अपख्यातिर्मा भूत् । भुवनेश्वरीदेवतालयं गत्वा तत्सन्निधौ तां पुरस्कृत्य घटे संशोधनीयं त्वया ।' ततो भोजः सर्वकविवृन्दपरिवृतः सन्भुवनेश्वरीदेवालयं प्राप्य तत्र तत्सन्निधौ भवभूतिहस्ते घटं दत्त्वा श्लोकद्वयं च तुल्यपत्रद्वये लिखित्वा तुलायां मुमोच । ततो भवभूतिभागे लघुत्वोद्भूतामीषदुन्नतिं ज्ञात्वा देवी भक्तपराधीना सदसि तत्परिभवो मा भूदिति स्वावतंसकह्नारमकरन्दं वामकरनखाग्रेण गृहीत्वा भवभूतिपत्रे चिक्षेप । ततः कालिदासः प्राह-

  'अहो मे सौभाग्यं मम च भवभूतेश्च भणितं
   घटायामारोप्य प्रतिफलति तस्यां लघिमनि ।
  गिरां देवी सद्यः श्रुतिकलितकह्लारकलिका-
   मधूलीमाधुर्यं क्षिपति परिपूत्यै भगवती' ॥ २५३ ॥

 ततः कालिदासपादयोः पतति भवभूतिः। राजानं च विशेषज्ञं मनुते स्म । ततो राजा भवभूतिकवये शतं मत्तगजान्ददौ ।

 अन्यदा राजा धारानगरे रात्रावेकाकी विचरन्काञ्चनस्वैरिणीं सङ्केतं गच्छतीं दृष्ट्वा पप्रच्छ- -'देवि, का त्वम् । एकाकिनी मध्यरात्रौ क्व गच्छसि' इति । ततश्चतुरा स्वैरिणी सा तं रात्रौ विचरन्तं श्रीभोजं निश्चित्य प्राह

  'त्वत्तोऽपि विषमो राजन्विषमेषुः क्षमापते ।
  शासनं यस्य रुद्राद्या दासवन्मूर्ध्नि कुर्वते ॥ २५४ ॥

 ततस्तुष्टो राजा दोर्दण्डादादायाङ्गदं वलयं च तस्यै दत्तवान् । सा च यथास्थानं प्राप ।(१) स्वेनेरितुं शीलमस्याः सेतिभावः । देवप्रयाग (माना हिमालय व्यवस्थापन- पं.चावरणाशी