पृष्ठम्:भोजप्रबन्धः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 ततो वर्त्मनि गच्छन्क्वचिद्गृह एकाकिनीं रुदतीं नारी दृष्ट्वा 'किमर्थमर्धरात्रौ रोदिति । किं दुःखमेतस्याः ।' इति विचारयितुमेकमङ्गरक्षकं प्राहिणोत् । ततोऽङ्गरक्षकः पुनरागत्य प्राह-'देव, मया पृष्टा यदाह तच्छृणु-

  वृद्धो मत्पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
  कालोऽयं जलदागमः कुशलिनी वत्सस्य वार्तापि नो ।
  यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्याकुला
  दृष्ट्वा गर्भभरालसां निजवधूं श्वश्रूश्चिरं रोदिति ॥ २५५ ।।

 ततः कृपावारिधिः क्षोणीपालस्तस्यै लक्षं ददौ ।
अन्यदा कोङ्कणदेशवासी विप्रो राज्ञे 'स्वस्ति' इत्युक्त्वा प्राह-

  शुक्तिद्वयपुटे भोज यशोऽब्धौ तव रोदसी ।
  मन्ये तदुद्भवं मुक्ताफलं शीतांशुमण्डलम् ॥ २५६ ॥

 राजा तस्मै लक्षं ददौ ।
 अन्यदा काश्मीरदेशात्कोऽपि कौपीनावशेषो राजनिकटस्थकवीन्कनकमाणिक्यपट्टदुकूलालङ्कृतानवलोक्य राजानं प्राह-

  नो पाणी वरकङ्कणक्वणयतो नो कर्णयोः कुण्डले
  क्षुभ्यत्तीरधिदुग्धमुग्धमहसी नो वाससी भूषणम् ।
  दन्तस्तम्भविकासिका न शिबिका नाश्वोऽपि विश्वोन्नतो
  राजन्राजसभासुभाषितकलाकौशल्यमेवास्ति नः ॥ २५७ ॥

 ततस्तस्मै राजा लक्षं ददौ ।
अन्यदा राजा रात्रौ चन्द्रमण्डलं दृष्ट्वा तदन्तस्थकलङ्कं वर्णयति स्म-

  'अङ्क केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे
  सारङ्गं कतिचिञ्च सञ्जगदिरे भूच्छायमैच्छन्परे ।'

 इति राजा पूर्वार्धं लिखित्वा कालिदासहस्ते ददौ । ततः स तस्मिन्नेव क्षण उत्तराध लिखति कविः-

  'इन्दौ यदलितेन्द्रनीलशकलश्यामं दरीदृश्यते
  तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥ २५८ ॥

 राजा प्रत्यक्षरलक्षमुत्तरार्धस्य दत्तवान् । ततो राजा कालिदासकवितापद्धतिं वीक्ष्य चमत्कृतः पुनराह-'सखे, अकलङ्कं चन्द्रमसं व्यावर्णय