पृष्ठम्:भोजप्रबन्धः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रुटितमादाय चर्मकारवेश्म गच्छन्तीं दृष्ट्वा तुष्टा इवासन् । ततस्तत्पदत्राणं तया चर्मकारकरे न्यस्तं वीक्ष्य तैश्च तस्याः करान्मिषेणादाय रेणुपूर्णे पथि मुक्त्वा तदेव पदं तस्येति ज्ञात्वा तां च दासीं क्रमेण, वेश्याभवनं विशन्तीं वीक्ष्य तस्या मन्दिरं परितो वेष्टयामासुः । ततश्च तैः क्षणेन भोजश्रवणपथविषयमभिज्ञानवार्ता प्रापिता । ततो राजा सपौरः सामात्यः पद्भ्यामेव विलासवतीभवनमगात् । ततस्तच्छ्रुत्वा विलासवतीं प्राह कालिदासः-'प्रिये, मत्कृते किं कष्टं ते पश्य ।'विलासवती-सुकवे,

उपस्थिते विप्लव एव पुंसां समस्तभावः परिमीयतेऽतः ।
अवाति वायौ नहि तूलराशेर्गिरेश्च कश्चित्प्रतिभाति भेदः ॥ १५५ ॥

  मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः ।
  आपन्निकषपाषाणे जनो जानाति सारताम् ॥ १५६ ॥
  अप्रार्थितानि दुःखानि यथैवायान्ति देहिनः ।
  सुखानि च तथा मन्ये दैन्यमत्रातिरिच्यते ॥ १५७ ॥

 सुकवे, राज्ञा त्वयि मनाङ्निराकृते वचसापि मया सदेहं दासीवृन्दं प्रदीप्तवह्नौ पतिष्यति ।' कालिदासः-'प्रिये, नैवं मन्तव्यम् । मां दृष्ट्वा विकासीकृतास्यो भोजः पादयोः पतिष्यति' इति । ततो वेश्यागृहं प्रविश्य भोजः कालिदासं दृष्ट्वा सम्भ्रममाश्लिष्य पादयोः पतति । स राजा पठति च-

  'गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा।
  मा भून्मनः कदाचिन्मे त्वया विरहितं कवे' ॥ १५८ ॥

 कालिदासस्तच्छ्रुत्वा ब्रीडावनताननस्तिष्ठति । राजा च कालिदासमुखमुन्नमय्याह-

  'कालिदास कलावास दासवच्चालितो यदि ।
  राजमार्गे व्रजन्नत्र परेषां तत्र का जपा ॥ १५९ ॥
  धन्यां विलासिनीं मन्ये कालिदासो यदेतया ।
  निबद्धः स्वगुणैरेष शकुन्त इव पञ्जरे' ॥ १६० ॥

 राजा नेत्रयोहर्षाश्रु मार्जयति कराभ्यां कालिदासस्य । ततस्तत्प्राप्ति-(१) भोजम्प्रतीत्यर्थः। (२) कार्पाससमूहस्य । (३) बीडया-लजया, अवनतं मुखं यस्य स इति विग्रहः । ३ भो० प्र०