पृष्ठम्:भोजप्रबन्धः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गच्छामः।' इति योजयित्वा तथा चक्रुः । ततो राजसभां गत्वा राजानमालोक्य 'स्वस्ति' इत्युक्त्वा विविशुः । ततो बाणः प्राह–'देव, सर्वज्ञेनयत्त्वया पठ्यते तदीश्वर एव वेद । केऽमी वराका उदरम्भरयो द्विजाः।  तथाप्युच्यते-

  तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।
  अणु इदि वण्णयदि कहं अणुकिदि तस्स प्पडिपदि चन्दस्स ॥ १५४ ॥
  तुलनामन्वनुसरति ग्लौसो मुखचन्द्रस्य खल्वेतस्याः।
  अन्विति वर्ण्यते कथमनुकृतिस्तस्य प्रतिपदि चन्द्रस्य ॥ इति च्छाया ।

राजा यथाव्यवसितस्याभिप्रायं विदित्वा 'सर्वथा कालिदासो दिवसप्राप्यस्थाने निवसति । उपायैश्च सर्वं साध्यम्' इत्याह । ततो बाणाय रुक्माणां पञ्चदशलक्षाणि प्रादात् । सन्तोषमिषेणैव विद्वद्वृन्दं स्वं स्वं सदनं प्रति प्रेषितम् ।

 गते च विद्वन्मण्डले शनैर्द्वापालायादिष्टं राज्ञा-'यदि केचिद्विजन्मान आयास्यन्ति; तदा गृहमध्यमानेतव्याः । ततः सर्वमपि वित्तमादाय स्वगृहं गते बाणे केचित्पण्डिता आहुः-'अहो, बाणेनानुचितं व्यवधायि । यदसावप्यस्माभिः सह नगरान्निष्कान्तोऽपि सर्वमेव धनं गृहीतवान् । सर्वथा भोजस्य बाणस्वरूपं ज्ञापयिष्यामः । यथा कोऽपि नान्यायं विधत्ते विद्वत्सु ।' ततस्ते राजानमासाद्य ददृशुः । राजा तान्प्राह- एतत्स्वरूपं ज्ञातमेव । भवद्भिर्यथार्थतया वाच्यम् ।' ततस्तैः सर्वमेव निवेदितम् । ततो राजा विचारितवान्-'सर्वथा कालिदासश्चारणवेषेण मद्भयान्मदीयनगरमध्यस्ते। 'ततश्चाङ्गरक्षकानादिदेश-'अहो, पलाय्यन्तां तुरङ्गाः । ततः क्रीडोद्यानप्रयाणे पटहध्वनिरभवत्-'अहो, इदानीं राजा देवपूजाव्यग्र इति शुश्रुमः । पुनरिदानीं क्रीडोद्यानं गमिष्यति' इति व्याकुलाः सर्वे भटाः सम्भूय पश्चाद्यान्ति । ततो राजा तैर्विद्वद्भिः सहाश्वमारुह्य रात्रौ यत्र चारणप्रसङ्गः समजनि, तत्प्रदेशं प्राप्तः । ततो राजा चरतां चौराणां पदज्ञाननिपुणानाहूय प्राह-'अनेन वर्मना यः कोऽपि रात्रौ निर्गतस्तस्य पदान्यद्यापि दृश्यन्ते, तानि पश्यन्तु' इति । ततो राजा प्रतिपण्डितं लक्षं दत्त्वा तान्प्रेषयित्वा च स्वभवनमगात् । ते च पदज्ञा राजाज्ञया सर्वतश्चरन्तोऽपि तमनवेक्षमाणा विमूढा इवासन् । ततश्च लम्बमाने सवितरि कामपि दासीमेकं पदत्राणं