पृष्ठम्:भोजप्रबन्धः.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्तिन्यामपि त्वय्युत्तरार्धमित्थं प्राह । तच्चाकर्ण्य त्वयापि कृतो हासः । ततश्च सर्वमेतद्दृष्ट्वा ब्राह्मणहननभीरुणा मया देशान्निःसारितः । त्वां च न दाक्षिण्येन हन्मि' इति । ततो हासपरा देवी चमत्कृता प्राह- -निःशङ्कं देव, अहमेव धन्या यस्यास्त्वं पतिरीशः । यत्त्वया भुक्तशीलाया मम मनः कथमन्यत्र गच्छति । यतःसर्वकामिनीभिरपि कान्तोपभोगे स्मर्तव्योऽसि । अहह देव, त्वं यदि मां सतीमसतीं वा कृत्वा गमिष्यसि, तर्ह्यहं सर्वथा मरिष्ये' इति । ततो राजापि 'प्रिये, सत्यं वदसि' इति । ततः स नृपतिः पुरुषैरहिमानयामास । तप्तं लोहगोलकं कारयामास । धनुश्च सजं चक्रे । ततो देवी स्नाता निजपातिव्रत्यानलेन देदीप्यमाना सुकुमारगात्री सूर्यमवलोक्य प्राह-'जगच्चक्षुस्त्वं सर्वं वेत्सि ।

  जाग्रति स्वप्नकाले च सुषुप्तौ यदि मे पतिः ।
  भोज एव परं नान्यो मच्चित्ते भावितोऽस्ति न -॥ १४९ ॥

 इत्युक्त्वा ततो दिव्यत्रयं चक्रे । ततःशुद्धायामन्तःपुरे लीजावत्यां लज्जानतशिरा नृपतिः पश्चात्तापात्पुरः 'देवि, क्षमस्व पापिष्ठं माम् । किं वदामि' इति कथमायास । राजा च तदाप्रभृति न निद्राति, न च भुङ्क्ते, न केनचिद्वक्ति । केवलमुद्विग्नमनाः स्थित्वा दिवानिशं प्रविलपति-'किं नाम मम लज्जा, किं नाम दाक्षिण्यम्, क्व गाम्भीर्यम् । हा हा कवे, कवि कोटिमुकुटमणे, कालिदास, हा मम प्राणसम, हा । मूर्खेण किमश्राव्यं श्रावितोऽसि । अवाच्यमुक्तोऽसि' इति प्रसुप्त इव ग्रहग्रस्त इव, मायाविध्वस्त इव, पपात । ततः प्रियाकरकमलसिक्तजलसञ्जातसंज्ञः कथमपि तामेव प्रियां वीक्ष्य स्वात्मनिन्दापरः परमतिष्ठत् । ततो निशानाथहीनेव निशा, दिनकरहीनेव दिनश्रीः, वियोगिनीव योषित्, शक्ररहितेव सुधर्मा, न भाति भोजभूपालसभा रहिता कालिदासेन । तदाप्रभृति न कस्यचिन्मुखे काव्यम् । न कोऽपि विनोदसुन्दरं वचो वक्ति ।

 ततो गतेषु केषुचिद्दिनेषु कदाचिद्राकापूर्णेन्दुमण्डलं पश्यन्पुरश्च लीलादेवीमुखेन्दं वीक्ष्य प्राह-

  'तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।'

 कुत्र च पूर्णेऽपि चन्द्रमसि नेत्रविलासाः, कदा वाचो विलसितम् ।