पृष्ठम्:भोजप्रबन्धः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रातश्चोत्थितः प्रातर्विधीर्विधाय सभां प्राप्य राजा विद्वद्वरान्प्राह-'अहो कवयः, इयं समस्या पूर्यताम् ।' ततः पठति-

  'तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।
 तुलनामन्वनुसरति, ग्लौसो मुखचन्द्रस्य खल्वेतस्याः'

पुनराह-'इयं चेत्समस्या न पूर्यते भवद्भिर्मद्देशे न स्थातव्यम्' इति । ततो भीतास्ते कवयः स्वानि गृहाणि जग्मुः । चिरं विचारितेऽप्यर्थे कस्यापि नार्थसङ्गतिः स्फुरति । ततः सर्वैमिलित्वा बाणः प्रेषितः । ततः सभां प्राप्याह राजानम्-'देव, सर्वैर्विद्वद्भिरहं प्रेषितः। अष्टवासरानवधिमभिधेहि । नवमेऽह्नि पूरयिष्यन्ति ते । न चेद्देशान्निर्गच्छन्ति ।' ततो राजा 'अस्तु' इत्याह । ततो बाणस्तेषां विज्ञाप्य राजसन्देशं स्वगृहमगात् । ततोऽष्टौ दिवसा अतीताः । अष्टमदिनरात्रौ मिलितेषु तेषु कविषु बाणः प्राह-'अहो तारुण्यमदेन राजसंनप्रमादेन किञ्चिद्विद्यामदेन कालिदासो निःसारितोऽभवत् । समे भवन्तः सर्व एव कवयः। विषमे स्थाने तु स एक एव कविः । तं निःसार्येदानीं किं नाम महत्त्वमासीत् । स्थिते तस्मिन्कथमियमवस्थास्माकं भवेत् । तन्निःसारे या या बुद्धिः कृता सा भवद्भिरेवानुभूयते ।

  सामान्यविप्रविद्वेषे कुलनाशो भवेत्किल ।
  उमारूपस्य विद्वेषे नाशः कविकुलस्य हि ॥ १५० ॥

 ततः सर्वे गाढं कलहायन्ते स्म मयूरादयश्च । ततस्ते सर्वान्कलहान्निवार्य सद्यः प्राहुः-'अद्यैवावधिः पूर्णः कालिदासमन्तरेण न कस्यचित्सामर्थ्यमस्ति समस्यापूरणे ।

  सङ्ग्रामे सुभटेन्द्राणां कवीनां कविमण्डले ।
  दीप्तिर्वा दीप्तिहानिर्वा मुहूर्तेनैव जायते ॥ १५१ ॥

 यदि रोचते ततोऽद्यैव मध्यरात्रे प्रमुदितचन्द्रमसि निगूढमेव गच्छामः सम्पत्तिसम्भारमादाय । यदि न गम्यते श्वो राजसेवका अस्मान् बलान्निसारयन्ति । तदा देहमात्रेणैवास्माभिर्गन्तव्यम् । तदद्य मध्यरात्रे गमिष्यामः ।' इति सर्वे निश्चित्य गृहमागत्य बलीवर्दव्यूढेषु शकटेषु सम्पद्भारमारोप्य रात्रावेव निष्क्रान्ताः। ततः कालिदासस्तत्रैव रात्रौ विलासवतीसदनोद्याने वसन् पथि गच्छतां तेषां गिरं श्रुत्वा वेश्याचेटीं प्रेषि- ।(१) तुलनामन्वनसरति, ग्लौसो मुखचन्द्रस्य खल्वेतस्याः